________________
३७.] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सुकरः मासिकः प्रासादः । मासेन परिजय्यः मासिकः हस्ती। कालात् इति किम् ? चैत्रेण लभ्यम् ।। ७७ ॥
निवृत्ते । ७८। 'तेन'इति तृतीयान्तात् कालविशेषवाचिनः निर्वृत्ते अर्थे इकण प्रत्ययो भवति ।
अह्ना निवृत्तम् आह्निकम् । आर्धमासिकम् । योगविभागः उत्तरत्र अस्य अनुवृत्त्यर्थः ॥ ७८ ॥
तस्मै भृत-अधीष्टे । ७९ । 'तस्मै' इति चतुर्थ्यन्तात् कालविशेषवाचिनः भृते अधीष्टे च अर्थे इकण प्रत्ययो भवति । भृतः वेतनेन व्यापारितः । अधीष्टः सत्कृत्यः ।
मासाय भृतः मासिकः कर्मकरः-मासं कर्मणे भृतः इत्यर्थः । मासाय अधीष्टः मासिकः अध्यापकः-मासम् अध्ययनाय अधीष्टः इत्यर्थः ॥ ७९ ॥
तम् भावि-भूते च । ८० ।। 'तम्' इति द्वितीयान्तात् कालविशेषवाचिनः भाविनि भूते च अर्थे इकण प्रत्ययो भवति । स्वसत्तया व्याप्स्यमानः कालः भावी । व्याप्तः भूतः ।
मासं भावी मासिकः उत्सवः । मासं भूतः मासिकः व्याधिः । चकारः 'तेन निवृत्ते' 'तस्मै भृत-अधीष्टे' 'तम् भावि-भूते च' इति त्रयाणाम् उत्तरत्र अनुवृत्त्यर्थः ॥८०॥
___ षण्मासात् ण्य-इको । ८१ । 'षण्मास'शब्दात् कालविशेषवाचिनः तेन निर्वृत्ते' इत्यादौ अर्थे ण्य-इको प्रत्ययो भवतः ।
षड्भिः मासैः निर्वृत्तः, षड्भ्यः मासेभ्यः भृतः, अधीष्टः वा षण्मासान् भावी भूतः वा पाण्मास्यः, षण्मासिकः ॥ ८१ ॥
. समायाः ईनः । ८२ । 'समा'शब्दात् 'तेन निवृत्ते' इत्यादी अर्थे 'ईन' प्रत्ययो भवति । समया निर्वृत्तः इत्यादिविग्रहे समीनः ॥ ८२ ॥
रात्रि-अहः-संवत्सरात् च द्विगोः वा । ८३ । 'रात्रि' आदिअन्तात् 'समा' शब्दअन्तात् च द्विगोः 'तेन निवृत्ते' इत्यादी अर्थे ईन' प्रत्ययो भवति वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org