________________
तद्धिते नवमः पादः ३ ७३ 'नवयज्ञ'आदिभ्यः निर्देशात् एव प्रथमान्तेभ्यः 'वर्तन्ते अस्मिन्' इत्यर्थे इकण् प्रत्ययो भवति ।
नवयज्ञा अस्मिन् वर्तन्ते नावयज्ञिकः। पाकयज्ञिकः । 'नवयज्ञ'आदयः प्रयोगगम्याः ॥ ७२ ॥
संख्यादेः च आ'अर्हत्' अलुचः । ७३ । आ'महत्' अर्थात् या प्रकृतिः उपादास्यते तस्याः केवलायाः संख्यादेश्च वक्ष्यमाणः प्रत्ययो वेदितव्यः न चेत् स लुच्परः स्यात् ।
पारायणम् अधीयानः पारायणिकः । द्वे पारायणे अधीयानः द्वैपारायणिकः । संख्यादेः इति किम् ? परमपारायणम् अधीते । 'आ अर्हत्' इत्यत्र अभिविधौ आङ् तेन 'अर्हत्' अर्थे अपि भवति-द्वे सहस्र अर्हति द्विसाहस्रः । अलुचः इति किम् ? द्विसूर्पण क्रीतम् द्विसौर्पिकम् ॥ ७३ ॥
पारायणम् अधीयाने । ७४। 'पारायण'शब्दात् द्वितीयान्तात् अधीयाने अर्थे इकण् प्रत्ययो भवति । पारायणम् अधीते पारायणिकः ॥ ७४ ॥
तेन संपादिनि । ७५। 'तेन' इति तृतीयान्तात् संपादिनि अर्थे इकग् प्रत्ययो भवति । गुणोत्कर्षः संपत्तिः । आवश्यके अर्थे ग्रहादित्वात् अत एव निपातनात् वा कर्तरि णिन् ।
कर्णवेष्टकाभ्याम् संपादि कार्णवेष्टकिकम् मुखम्-कर्णवेष्टकाभ्यां विशेषतः शोभते इत्यर्थः । एवम् औपानहिको पादौ ॥ ७५ ॥
- कर्म-वेषात् यः । ७६ । आभ्यां तृतीयान्ताभ्याम् संपादिनि अर्थे 'य' प्रत्ययो भवति । कर्मणि संपादि कर्मण्यम् शौर्यम् । वेषेण संपादी वेष्यः नटः ।। ७६ ॥
कालात् लभ्य-कार्य-सुकर-परिजय्ये । ७७ । कालविशेषवाचिनः 'तेन' इति तृतीयान्तात् 'लभ्य'आदिषु अर्थेषु इकण प्रत्ययो भवति । 'कार्य' आदीनाम् शक्ते अहें यः । अकृच्छ्रेग क्रियते यत् तत् सुकरम् ।
मासेन लभ्यः मासिकः पाठः । मासेन कार्यम् मासिकं चान्द्रायणम् । मासेन
१. 'संपादिनि' शब्दे आगतस्य 'णिन्'प्रत्ययस्य सिद्धयर्थम् एतद् उक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org