________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'निकट' आदिषु वसति । ६८ ।
'निकट' आदिभ्यः 'तत्र वसति' इत्यर्थे इकंणू प्रत्ययो भवति ।
निकटे वसति नैकटिक : - यः ग्रामस्य समीपे वसति आरण्यको भिक्षुः स एवम् उच्यते तथाप्रसिद्धेः । वार्क्षमूलिकः । आभ्यवकाशिकः । स्माशानिकः । 'निकट' आदयः प्रयोगगम्याः ॥ ६८ ॥
३७२ ]
सतीर्थ्यः । ६९ ।
'समानतीर्थ' शब्दात् 'वसति' अर्थे 'य' प्रत्ययः समानस्य 'स'भावश्च निपात्यते । समानतीर्थे वसति सतीर्थ्यः । तीर्थम् इह गुरुः उच्यते ॥ ६९ ॥
संस्थान - प्रस्तार- तदन्त- ' कठिन' अन्तेषु व्यवहरति । ७० ।
संस्थान- प्रस्ताराभ्याम्, तदन्तात्, 'कठिन' अन्तात् सप्तम्यन्तात् 'व्यवहरति ' अर्थे इण् प्रत्ययो भवति ।
संस्थाने व्यवहरति सांस्थानिकः । प्रास्तारिकः । तदन्त - गौसंस्थानिकः । कांस्यप्रस्तारिकः । वांशकठिनिकः । कठिनम् - तापसभाजनम् । बहुवचनम् कठिनान्ते स्वरूपग्रहणं मा भूत् ॥ ७० ॥
अध्यायिनि अदेश-कालात् । ७१ ।
अध्ययनस्य यौ अदेश- कालौ 'अशुचिप्रदेश' आदि - 'संध्या' आदिरूपौ तद्वाचिनः 'तत्र' इति सप्तम्यन्तात् अध्यायिनि वाच्ये इकण् प्रत्ययो भवति ।
अशुचौ अध्यायी आशुचिकः । सान्ध्यिकः । अदेश - कालात् इति किम् ? विहारभूमौ अध्यायी । पूर्वाह्णे अध्यायी ॥ ७१ ॥
" आरण्यकेन भिक्षुणा ग्रामात् क्रोशे वस्तव्यम् इति यस्य शास्त्रितो वासः स एवम् उच्यते' - सिद्धहेमे - ६।४।७७॥
'नवयज्ञ'आदयः अस्मिन् वर्तन्ते । ७२ ।
1
२. 'चन्द्रसूर्योपरागश्च निर्घातो भूमिकम्पनम् ।
Jain Education International
"
तृतीयं गर्जितं विद्युत् उल्का दाही दिशां तथा ॥
श्मशानाभ्याशम् अशुचिः उत्सवो दश संध्यया ।
"
इति कालिकसूत्रस्य अनध्यायदेश - कालाः पठिताः" ॥ - ३ । २ । ७४ । शा० अ०
" अध्ययनस्य यौ देश - कालौ शास्त्रेण प्रतिषिद्धौ तौ अदेश - कालशब्देन उच्येते । चातुष्पथिकः । चतुर्दश्याम् अधीते चातुदेशिकः । आमावास्यिकः " - ४ । ४ । ७१ । काशिका ।
For Private & Personal Use Only
www.jainelibrary.org