SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ तद्धिते नवमः पादः आभ्याम् 'तत् अस्य शिल्पम्' इत्यर्थे वा अण् प्रत्ययो भवति ।। मड्डुकवादनम् शिल्पम् अस्य माड्डुकः, माड्डुकिकः। झाझरः, झाझरिकः ॥६१॥ _ भक्ष्यम् अस्मै हितम् । ६२ ।। 'तत्' इति प्रथमान्तात् 'अस्मै' इत्यर्थे इकण प्रत्ययो भवति, तत् चेत् प्रथमान्तं भक्ष्यं हितं स्यात् । अपूपाः भक्ष्यम् हितम् अस्मै आपूपिकः । मौदकिकः । हितम् इति किम् ? अपूपा अहितम् अस्मै ॥ ६२ ॥ नियुक्तं दीयते । ३३ । 'तत्'इति प्रथमान्तात् 'अस्मै' इत्यर्थे इकण् प्रत्ययो भवति, यत् तत् प्रथमान्तम् तत् चेत् नियुक्तम् अव्यभिचारेण वा दीयते । __ अग्रं भोजनम् अस्मै दीयते नियुक्तम् आग्रभोजनिकः । आपूपिकः । अस्मै इति किम् ! रजकस्य नित्यं वस्त्रं देयम् ॥ ६३ ॥ भक्त-ओदनाभ्याम् अण्-इकटौ वा । ६४ । आभ्याम् 'नियुक्तम् अस्मै दीयते'इत्यस्मिन् विषये 'अण' 'इकैट' प्रत्ययो वा भवति। भोक्तः, भाक्तिकः । ओदैनिकः । औदनिकः ॥ ६४ ॥ श्राणा-मांसौदनात् इकः । ६५। आ याम् ‘नियुक्तम् अस्मै दीयते'इत्यर्थे 'इक'प्रत्ययो भवति । श्राणिकः। श्राणिका। मांसौदनिकः। मांसौदनिका । इकणि-मांसौदनिकी ॥६५॥ तत्र नियुक्ते । ६६ । 'तत्र'इति सप्तम्यन्तात् 'नियुक्ते' अर्थे इकण प्रत्ययो भवति, नियुक्तः व्यापारितः । शुल्कशालायां नियुक्तः शौल्कशालिकः ॥ ६६ ॥ 'अगार'अन्तात् इकः । ६७ । 'अगार'अन्तशब्दात् 'तत्र नियुक्ते'इत्यर्थे 'इक' प्रत्ययो भवति । देवागारे नियुक्तः देवागारिकः । कोष्ठागारिकः ॥ ६७ ॥ १. अत्र 'यथासंख्यम्' इति अध्याहार्यम् । तेन 'भक्त'शब्दात् अण, 'ओदनशन्दात् इकट इति भावो बोध्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy