________________
३७०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
किसरं पण्यम् अस्य किसरिकः । किसर तगर स्थगर नलद उशीर हरिद्रा हरिद्रु गुग्गुल इति 'किसर' आदिः ॥ ५६ ॥ .
शलालो वा । ५७। 'शैलालु'शब्दात् 'तत् अस्य पण्यम्' इति अर्थे इकट् प्रत्ययो भवति वा । शलालु पण्यम् अस्य शलालुकः ।। ५७ ॥
वृत्तः अपपाठः अनुयोगे । ५८ । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे इकण प्रत्ययो भवति, यत् तत् प्रथमान्तम् तत् चेत् अनुयोगविषये वृत्त: अपपाठः स्यात् , अनुयोगः परीक्षा ।।
एकम् अन्यत् अस्य अपपाठः वृत्तम् अनुयोगे ऐकान्यिकः । एवम् द्वैयन्यिकः । वृत्तः इति किम् ? वर्तमाने वस्य॑ति वा मा भूत् ।। ५८ ॥
बहुस्वरपूर्वपदात् इकः । ५९। बहुस्वरपूर्वपदात् 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे 'इक' प्रत्ययो भवति । यत् तत् प्रथमान्तम् तत् चेत् वृत्तः अपपाठः अनुयोगे स्यात् ।
एकादश अन्यानि अस्य अपपाठरूपाणि वृत्तानि अनुयोगे एकादशान्यिकः । एकादशान्यिका ॥ ५९॥
शिल्पम् । ६० । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे 'इकण' प्रत्ययो भवति, यत् तत् प्रथमान्तम् तत् चेत् शिल्पं स्यात् । शिल्पं क्रियासु कौशलम् ।
नृत्तं शिल्पम् अस्य नार्तिकः । मृदङ्गवादनं शिल्पम् अस्य मार्दङ्गिकः । वादनार्यः शिल्पार्थश्च वृत्तौ अन्तर्भूतः यथा 'दध्योदनः' इत्यत्र उपसिक्तार्थः इति वादन-शिल्पशब्दयोः अप्रयोगः । मृदङ्गकरणम् शिल्पम् अस्य मार्दङ्गकरणिकः । सर्वोत्पत्तिमतां साधारणः 'करोति'अर्थः विशेषप्रतिपत्तिकेन तद्धितान्तेन न शक्यः अन्तर्भावयितुम् इति न करणशब्दनिवृत्तिः । 'वादन'आदि तु असाधारणं मृदङ्गादिरूपसाधनविशेषविषयम् अतः विशेषशब्दैः अन्तर्भावयितुं शक्यते ॥ ६० ॥
मड्डुक-झझंरात् वा अण् । ६१। १. 'शलालु'शब्दो गन्धविशेषवचनः-४।४।५४। काशिका ।
२. उत्तरप्रदेशे वाराणसीप्रभृतिप्रदेशेषु अयं 'झझर'शब्दः 'झज्झर'रूपेण 'चौडे मुंहका छोटा घडा-झज्झर' इत्यर्थे व्यवहियते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org