________________
तद्धिते नवमः पादः
प्रहरणम् । ५० ।
'तत्' इति वर्तते । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे इकण् प्रत्ययो भवति, यत् तत् प्रथमान्तं तत् चेत् प्रहरणं स्यात् ।
असिः प्रहरणम् अस्य आसिकः । मौष्टिकः ॥ ५० ॥
परश्वधात् वा अण् । ५१ ।
‘परश्वध' शब्दात् 'तत् अस्य ग्रहरणम्' इत्यर्थे अण् प्रत्ययो वा भवति । पारश्वधः, पारश्वधिकः ॥ ५१ ॥
शक्ति-यष्टेः टीकणू । ५२ ।
शक्ति-यष्टिभ्याम् ' तत् अस्य प्रहरणम्' इत्यर्थे टीकण् प्रत्ययो भवति । शाक्तीकः । याष्टीकः । शाक्तीकी ॥ ५२ ॥
'इष्टि' आदिभ्यः वा । ५३ ।
एभ्यः ‘तत् अस्य प्रहरणम्' इत्यर्थे टीकण प्रत्ययो वा भवति । ऐष्टिकः, ऐष्टीकः । काम्पनिकः, काम्पनीकः । आम्भसिकः, आम्भसीकः । दाण्डिकः, दाण्डीकः । ' इष्टि' - आदयः प्रयोगगम्याः ॥ ५३ ॥
[ ३६९
दैष्टिक - आस्तिक-नास्तिकम् । ५४ ।
एते 'तत् अस्य' इति विषये 'इकण्' अन्ता निपात्यन्ते ।
दिष्टं प्रमाणम् इति मतिः अस्य दैष्टिकः । अस्ति परलोकः पुण्यम् पापं च इति मतिः अस्य इति आस्तिकः । एवम् - नास्तिकः ॥ ५४ ॥
पण्यम् । ५५ ।
'तत् अस्य' इति वर्तते । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे इकण् प्रत्ययो भवति, यत् तत् प्रथमान्तम् तत् चेत् पण्यं स्यात् ।
अपूपाः पण्यम् अस्य आपूपिकः । शाष्कुलिकः ॥ ५५ ॥
Jain Education International
'किसर' आदेः इकट् । ५६ ।
'किसर' आदिभ्यः 'तत् अस्य पण्यम्' इत्यर्थे इकट् प्रत्ययो भवति । 'किसर' आदयः गन्धेविशेषवचनाः ।
४७
For Private & Personal Use Only
www.jainelibrary.org