________________
३६८ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'माथ'उत्तरपद-पदवी-आक्रन्दात् धावति । ४५ । 'तत्' इति द्वितीयान्ताद् 'माथ'उत्तरपदं यस्य तस्मात् 'पदवी'-'आन्द'शब्दाभ्यां च 'धावति' अर्थे इकण प्रत्ययो भवति । दाण्डमाथिकः । पदवी धावति पादविकः । आन्दिकः ॥ ४५ ॥
पश्चाति अनुपदात् । ४६ । 'पश्चाति' इति प्रकृतिविशेषणम् । 'पश्चात् अर्थे वर्तमानात् 'अनुपद'शब्दात् 'धावति' अर्थे इकण प्रत्ययो भवति । पदस्य पश्चात् अनुपदम् तत् धावति आनुपदिकः ॥ ४६ ॥
शीलम् । ४७। 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे इकण प्रत्ययो भवति, यत् तत् प्रथमान्तम् तत् चेत् शीलं स्यात् । शीलं प्राणिनां स्वभावः--फलनिरपेक्षा प्रवृत्तिः इत्यर्थः । अपूपाः अपूपभक्षणम् शीलम् अस्य आपूपिकः । मौदकिकः ॥ ४७ ॥
__ 'छत्र'आदेः अञ् । ४८। 'छत्र'आदिभ्यः 'तत् अस्य शीलम्' इत्यर्थे अञ् प्रत्ययो भवति ।
छत्रम् शीलम् अस्य छात्र:- गुरुकार्येषु अवहितस्य शिष्यस्य छत्रक्रियातुल्या गुरुच्छिद्राच्छादनिका क्रिया 'छत्रम्' उच्यते । एवम् शिक्षाशील: शैक्षः । छत्र शिक्षा बुभुक्षा तितिक्षा चुरा उदस्थान पुरोडाश कृषि कर्मन् तपस् सस्य इति 'छत्र' आदि ॥ ४८ ॥
तूष्णीकः । ४९। 'तूष्णीम्' शब्दात् 'तत् अस्य शीलम्' इति विषये. कः मकारलोपश्च निपात्यते । तूष्णींभावः शीलम् अस्य तूष्णीकः ॥ ४९ ॥ १. 'माथः पथिपर्यायः” ३।३।३५। शा० अ० ।
२. आक्रन्दन्ति एतस्मिन् इति आक्रन्दो देशः अथवा आकन्द्यते इति आक्रन्दः आर्तायनम उच्यते । विशेषाभावाद् द्वयोरपि ग्रहणम्-काशिका ४।४।३८। 'आक्रन्दन्ति यत्र स देशः आक्रन्दः आक्रन्द्यते इति वा आक्रन्दः आर्तायनम्-शरणम् उच्यते" ।६।४।४० सिद्धहेमे । "आरावे रुदिते त्रातरि आक्रन्दो दारुणे रणे"-अमर. नानार्थव. २३ तृतीयकां० श्लो. ९.। 'आक्रन्दो दारुणरणे (०रसे) साऽऽरावरुदिते नृपे"-हैमअने० श्लो० ९२६ निर्णय० । काशिकायाम् आक्रन्दो देशः उक्तः स च अधुना भारतदेशे वा अन्यत्र तन्नामा ग्रामः प्रसिद्धः वा कोऽपि देशः इति शोधनीयम् अथवा 'देश'शब्देन अत्र कि ग्राह्यम् ? इत्यपि विचारणीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org