________________
तद्धिते दशमः पादः
निशा-प्रदोष-हेमन्तात् । ७८ । एभ्यः ‘भव'आदौ अर्थे इकण वा भवति । नैशिकः, नैशः । प्रादोषिकः, प्रादोषः । हैमन्तिकः, हैमन्तः ।। ७८ ॥
श्वसः तट च । ७९ । 'श्वस्'शब्दात् कालवाचिनः ‘भव'आदौ अर्थे इकण् प्रत्ययो वा भवति, तस्य च तट आगमः । शौवस्तिकः पक्षे श्वस्त्यः ॥ ७९ ॥
हेमन्तस्य अणि तो लुक् । ८० । 'हेमन्त'शब्दस्य कालवाचिनः ‘भव'आदौ अर्थे अणि परे तकारस्य लुग् वा भवति । हैमनम् , हैमन्तम् ।। ८० ॥
पुरः नट् । ८१ । 'पुरा'शब्दात् कालवाचिनः 'भव'आदौ अर्थे नट् प्रत्ययो वा भवति । पुराणम् पक्षे पुरातनम् । टकारः ड्यर्थः ।। ८१ ॥
पूर्वाह्न-अपराह्नात् तनट् । ८२। आभ्याम् 'भव'आदौ अर्थे तनट् प्रत्ययो वा भवति ।। पूर्वाह्नतनः । अपराह्नतनः । पक्षे पौर्वाह्निकः । आपराह्निकः ॥ ८२ ॥
सायम्-चिरम्-प्रारू-प्रगे अव्ययात् । ८३ । पृथगवचनात् 'वा' इति निवृत्तम् । एभ्यः ‘भव'आदौ अर्थे 'तनट्' प्रत्ययो भवति ।
सायंतनम् । चिरंतनम् । प्राढेतनम् । प्रगेतनम् । अव्यय-दिवातनम् । दोषातनम् । 'सायम्'आदीनाम् मकारान्तानाम् 'अव्ययात्' इत्येव सिद्धे वचनात् 'साय' आदिशब्दानां प्रत्ययसन्नियोगे ‘मकार'अन्तत्वं विज्ञायते ॥ ८३ ॥
भ-ऋतु-सन्ध्या आदेः अण् । ८४।। 'भ'वाचिनः, ऋतुवाचिनः, 'संध्या'आदिभ्यश्च कालवाचिभ्यः 'भव'आदौ अर्थे अण् प्रत्ययो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org