________________
तृतीयः सन्धिः
[१३ एवे अनियोगे । १३ । नियोगः अवधारणम् ततोऽन्यत्र वर्तमाने एवशब्दे परे परेण स्वरेण सहितस्य अवर्णस्य स्थाने परः स्वर आदेशो भवति । क्वेव भोक्ष्यसे ? अनियोग इति किम् ? अद्यैव । इहैव ॥ १३ ॥
वा ओष्ठ-ओतौ समासे । १४ । ओष्ठशब्दे ओतुशब्दे च परे परेण स्वरेण सहितस्य अवर्णस्य स्थाने परः स्वर आदेशो वा भवति । तौ चेत् निमित्त-निमित्तिनौ एकत्र समासे स्याताम् ।
बिम्बोष्ठी, बिम्बौष्ठी । स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे राजपुत्रौष्ठं पश्य । हे देवदत्तौतुविजम्भितं पश्य ॥ १४ ॥
ऋते तृतीयायाः आर् । १५ । तृतीयान्तस्य संबन्धिनः अवर्णस्य ऋतशब्दे परे परेण स्वरेण सहितस्य आर् आदेशो भवति । तौ चेत् निमित्त-निमित्तिनौ एकत्र समोसे स्याताम् ।
सुखार्तः । दुःखार्तः । तृतीयायाः इति किम् ? परमर्तः । समास इति किम् ? सुखेनतः ॥ १५ ॥
प्र-दश-ऋण-वसन-कम्बल-वत्सर-वत्सतरस्य ऋणे । १६ ।
'प्र' शब्दादीनाम् अवर्णस्य 'ऋण' शब्दे परे परेण स्वरेण सहितस्य आर् आदेशो भवति ।
प्रगतम् ऋणम् प्रार्णम् । दशानाम् ऋगम् दशार्णम् । दश ऋणानि यस्यां सा दशार्णा नदी । दशाणों जनपदः। ऋणे ऋणम् ऋणार्णम् । वसनस्य ऋणम् वसनार्णम् । कम्बलार्णम् । वत्सरार्णम् । वत्सतरार्णम् ॥ १६ ॥
___ ऋति आर् उपसर्गस्य । १७ । उपसर्गस्य संबन्धिनः अवर्णस्य ऋकारादौ धातौ परे परेण स्वरेण सहितस्य आर् आदेशो भवति ।
उपार्नोति । प्रार्च्छति । उपसर्गस्य इति किम् ? इहनोंति । प्रछको देश:-अत्र 'प्र'शब्दस्य प्रत्ययार्थेन का योगः न धातुना इति अनुपसर्गत्वम् । 'आर्' इति अनुवर्त
१. अत्र पूर्वसूत्रात् ‘समासे 'इति अनुवर्तनीयम् । २. उप+ऋध्नोति । ३. प्र+ऋच्छति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org