________________
१२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
अवर्णस्य इवर्णादौ एत्-ओत्-अर्-अल् । ८ । अवर्णस्य इवर्णादौ स्वरे परे परेण स्वरेण सहितस्य यथासंख्यम् ए ओ अर् अल् इत्यादेशा भवन्ति ।
तवेयम् । मालेयम् । गन्धोदकम् । मालोदकम् । परमषिः । महर्षिः । तवल्कारः । सल्कारेण । त्रिमात्रयोरपि स्थानिनोः एदोतौ द्विमात्रावेव भवतः सूत्रे तथानिर्देशात् ॥८॥
एच्-ऊचोः ऐत् औत् । ९। अवर्णस्य एचि ऊचि च परे परेण स्वरेण सहितस्य प्रत्यासत्या ऐ औ आदेशौ भवतः ।
तवैषा । खट्टवैषा । तवैन्द्री । खट्दैन्द्री। तबौदनः । खट्वौदनः । तवौपगवः । खट्वौपगवः । ऊचि-धौतः । धौतवान् ॥ ९॥
प्रस्य ऊह-ऊढ-ऊढि-एष-एष्येषु । १० । प्रशब्दस्य संबन्धिनः अवर्णस्य ऊह-आदिषु परेषु परेण स्वरेण सहितस्य आसत्त्या ऐ औ आदेशौ भवतः ।
प्रौहः । प्रौढः । प्रौढिः । श्रेषः । प्रेष्यः । प्रस्य इति किम् ? अपोढः । ऊहादिषु इति किम् ? प्रेतः । 'एकः प्रेष्यः' इति 'ईषेय॑णि ईष्यरूपम् ॥ १० ॥
स्वैर-स्वैरी-अक्षौहिण्यः।११। एते अवर्णस्य परेण स्वरेण सहितस्य ऐ औ आदेशेन निपात्यन्ते ।
स्वस्य ईरः स्वैरः, स्वयम् ईर्ते इति स्वैरः अच् । स्वयम् ईरितुं शीलमस्य स्वैरी । अक्षाणाम् ऊहिनी अक्षौहिणी ॥ ११ ॥
ओम्-आङि परः। १२ । अवर्णस्य ओमि आङादेशे च परे परेग स्वरेण सहितस्य परः स्वर आदेशो भवति ।
तवोङ्कारः । .... [' आङादेशे] - आ इहि-एहि उप एहि-उपेहि । शकन्धुः । कर्कन्धुः इति पृषोदरादिः ॥ १२ ॥
१. 'ईष उञ्छे' इत्येतस्य धातोः 'ईष्य'इति साधिते प्र+ ईध्य = प्रेष्य इति सिद्धम् । २. एतच्चिह्वान्तर्गतं सर्व संपादकीयम् ।
३. शकानाम् अन्धुः-शक + अन्धुः । अत्र शकशब्दस्य अन्त्यस्य अकारस्य लापः । शकनामकजातीयमानवानाम् - अन्धुः कूपः इत्यर्थः । एवम् अन्यत्रापि आदिमशब्दस्य अन्त्यस्वरलोपो ज्ञेयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org