________________
तृतीयः सन्धिः
हस्वः अपदे वा । ३ । इकः अस्त्रे स्वरे परे हस्वादेशो वा भवति, न चेत् तौ निमित्त-निमित्तिनौ एकत्र पदे भवतः ।
नदि एषा, नयेषा । मधु अत्र, मध्वत्र । अति एति, अत्येति । हस्वस्यापि हस्वः पर्जन्यस्येव लक्षणस्य प्रवृत्तेः । हस्वविधानसामर्थ्याच्च अन्यत् कार्यान्तरं न भवति । अपदे इति किम् ? नद्यौ । वध्वौ । नधुदकम् । वध्यासनम् । अनुव्यचलत्' इत्यादि अखण्डमव्ययम् ॥ ३ ॥
ऋ-लुतोः समानस्य । ४ । समानस्य ऋकारे लकारे च परे हस्वादेशो भवति वा ।
खट्वऋश्यः, खट्वर्यः । धूलिऋतुः, धूल्य॒तुः । कर्तृऋश्यः, कर्तृश्यः । लतिकन्यलकारः, कन्यल्कारः । अनिगर्थम् स्वार्थम् पदार्थं च वचनम् ॥ ४ ॥
दीर्घः स्वे सपरस्वरस्य । ५। समानस्य स्त्रे स्वरे परे परेण स्वरेण सहितस्य प्रत्यासत्या दीर्घो भवति ।
दण्डाग्रम् । साऽऽगता । दधीदम् । नदीहते । मधूदकम् । वधूढा । पितृषभः । पितृतकः इत्याह । 'प्रेजुः' 'प्रोपुः' इति अन्तरङ्गत्वाद् एदोद्भयां प्रागेव दीर्घः ॥ ५ ॥
शसि सश्च नः पुंसि । ६ । समानस्य शसि परे परेण स्वरेण सहितस्य स्थानिप्रत्यासत्या दीर्घो भवति । पुंलिङ्गे च शसः सकारस्य नकारः ।
___ बुद्धीः । धेनूः । नदीः । वधूः । मातृः । ‘वनानि' 'प्रपूणि' इत्यत्र परत्वात् शि-नमौ भवतः । सश्च नः पुंसि - वृक्षान् । मुनीन् । साधून् । पितॄन् । 'चञ्चाः पुरुषान् पश्य' इत्यत्र 'चञ्चा 'आदयः स्त्रीत्वं नोज्झन्ति-इति न भवति ॥ ६ ॥
__ऋवर्णस्य लवणे तृः । ७ । ऋवर्णस्य लवर्णे परे परेण स्वरेण सहितस्य लु इत्यादेशो भवति ।
होत्लकारः । पितृतकः । ऋवणे तु परे ऋकारः “ दीर्घः खे" [ तृती० सन्धिः ५ ] इत्येव सिद्धः ॥ ७ ॥
१. “ पर्जन्यवल्लक्षणप्रवृत्तिः” इति न्यायसंग्रहे न्यायः १२ । २. 'अनुव्यचलत् ' इत्यस्य अखण्डपदत्वेन 'अनुविअचलत्' इत्येवंरूपं कदापि न भवति । ३. अत्र 'पितृ + ऋतकः' इति पदविभागः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org