SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । पयांसि । वन्दते ॥ १९ ॥ विरामे वा प्रथमः तृतीयस्य । २० । _ विरतिः विरामः स भवन् अनुपसर्गस्य अवृत्तिमध्यस्य पदस्य अन्ते भवति । विरामे वर्तमानस्य तृतीयस्य स्थाने प्रत्यासत्या प्रथम आदेशो वा भवति । वाक् वाग् । षट् षड् । तत् तद् । विराम इति किम् ? वागत्र । तृतीयस्येति किम् ? विद्वान् ।। २० ।। न इतः प्राग् दशः ॥ २१ ॥ इत ऊर्ध्वम् “ पञ्चतो नपः अनेकतरस्य अन्यादेः स्यमोर्दश्" [ ना० प्रथ० पादः ११ ] इति दशः प्राक् यद् वक्ष्यति तद् विरामे न भवति । ते आहुः । भवान् लुनाति । एजादीनां स्वराधुपश्लेषविज्ञानात् विरामे अयाद्यभावसिद्धौ वचनं मन्दानुग्रहार्थम् ॥ २१ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तवृत्तौ द्वितीयः सन्धिः समाप्तः ॥ तृतीयः सन्धिः एचः स्वरे अय-आय-अव-आव् । १। एचसंज्ञकानां स्वरे परे यथासंख्यम् अय् आय् अव् आव् इत्यादेशा भवन्ति । नयनम् । रायौ । लवनम् । नावौ । स्वरे इति किम् ? गोकुलम् ॥ १॥ इकः अस्वे यञ् । २। इक्संज्ञकानाम् अस्वे स्वरे परे प्रत्यासत्या यञ् आदेशो भवति । इवर्णस्य तालव्यस्य स्थाने यञ् तालव्यो यकारः । उवर्णस्य ओष्ठ्यस्य यञ् ओष्ठ्यो वकारः । ऋवर्णस्य मूर्धन्यस्य यञ् मूर्धन्यो रेफः । लुवर्णस्य दन्त्यस्य यञ् दन्त्यो लकारः । दध्यत्र । नयेषा । मध्वत्र । वध्वासनम् । पित्रर्थः । लाकृतिः । इक इति किम् ? पचति । " इकैः परः अस्वे स्वरे परे यञ् भवति" [ ] इति व्याडि-गालवादयः । दधियत्र । मधुवत्र । तिरियङ् । भूवादयः । तदपि अतो निर्देशात् सिद्धम् ॥ २ ॥ , . १. अत्र 'इकः' इति पञ्चम्यन्तं व्याख्येयम् । श्रीपाणिनीय-हैमव्याकरणेषु अपि एषा व्याख्या समादृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy