________________
द्वितीयः सन्धिः
[ ९
मुनिना । साधुना । मुनिसुतौ । साधुगुप्तौ । सख्यादिप्रतिषेधः किम् ? सख्या । पत्या | अद्वन्द्वग्रहणं किम् ? पंतिसुतौ, अत्र पतिशब्दस्य धिसंज्ञकत्वात् पूर्वनिपातः । केवलसखि - पतिशब्दप्रतिषेधाद् इह भवति- -अतिसखेः आगच्छति । बहुपतेः स्वम् । घिप्रदेशा:- " घेर्डी” [ ना० प्रथ० पादः ३१ ] इत्येवमादयः ॥ १५ ॥
प्रत्ययः कृतः अषष्ठयर्थस्य । १६ ।
इह शास्त्रे यो *विहितः स प्रत्ययसंज्ञो भवति चेत् षष्ठ्यन्तार्थस्य विहितो न स्यात् ।
" नाम्नः प्रथमा एक द्वि-बहौ [ ना० सप्त० पादः २ ] वृक्षाः । कर्ता । गौरी । “गौरादीनाम् " [ ना० पञ्च० पाद: ५१ ] इति अभिधेयापेक्षा षष्ठी न 'डी' अपेक्षया इति प्रत्ययसंज्ञा । कृतः इति किम् ? प्रकृतेर्मा भूत् । अषष्ठ्यर्थस्य इति किम् ? विकारस्य आगमस्य च मा भूत् । प्रत्यय प्रदेशाः " प्रत्यये" [ च० सन्धिः ९ ] इत्येवमादयः ॥ १६ ॥ परः । १७ ।
प्रत्ययः प्रकृतेः पर एव वेदितव्यः ।
वृक्षाः । गौरी | खट्वा । पञ्चमीनिर्देशे “प्राक् पञ्चमी” [ सिद्धौ अपञ्चमीनिर्देशे परत्वार्थं वचनम् ॥ १७ ॥
स्पर्द्धे । १८ ।
द्वयोर्विध्योः अन्यत्र सावकाशयोः तुल्यबलयोः एकत्र उपनिपातः स्पर्द्ध:, तस्मिन् सति यो विधि ः सूत्रपाठे परः स एव वेदितव्यः ।
66
66
“ उत् अतः रेः अ-घोषवतोः " [ ना० प्रथ० पादः ७] को हसति । एतदश्च व्यञ्जने अनक्- नञ्समासे " [ ना० प्रथ० पादः ९ ] एष त्सरुकः । ' एष हसति' इत्यत्र लुगू - उत्वयोः पर एव लुग्विधिः । नित्य - अनित्य-अन्तरङ्ग - बहिरङ्ग - उत्सर्ग - अपवादेषु नित्यअन्तरङ्ग - अपवादा एव लोके बलवन्तो रूढाः । परस्परप्रतिबन्धेन अप्रवृत्तौ पर्याये वा प्राप्ते वचनम् ॥ १८ ॥
] इत्येव
स्वरात् अन्त्यात् मित् । १९ ।
मकारानुबन्धः स्वरेषु अन्त्यात् स्वरात् परो वेदितव्यः ।
१. अत्र 'पति' शब्दः तत्पुरुषे समासे, न द्वन्द्वसमासे अतः घिसंज्ञा, ततश्च घिसंज्ञायाः फलं पूर्वनिपातः सिद्धः ।
२. कृतः विहितः इति पर्यायौ । अत्र प्रकृतिः न कृता सा तु स्वयंसिद्धा इति भावः । ३. 'गौर' इत्यादि - अभिधेयवाचिनां नाम्नां स्त्रियाम् इति तात्पर्यम् ।
२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org