________________
८]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
नाम सित्-अयव्यञ्जने । १०। सिति यवर्जितव्यञ्जनादौ च प्रत्यये परे पूर्व नाम पदसंज्ञं भवति ।
ऊर्गायुः । पयोभ्याम् । सित्-अयव्यञ्जने इति किम् ? भवन्तौ । यप्रतिषेधः किम् ? दिव्यम् । नाम इति किम् ? वच्मि । अन्तर्विभक्त्यैव पदत्वे सिद्धे सित्-ग्रहणं प्रत्यये परे नियमार्थम् तेन इह न भवति-भागवतम् ।। १०॥
न वृत्त्यन्तः।११। परार्थाभिधानं वृत्तिः तद्वांश्च शब्दसमुदायः समासादिः । तस्या अन्तः पदसंज्ञो न भवति ।
__ परमगिरौ । बहुदण्डिनौ । अन्तग्रहणं किम् ? राजवाक् । वाक्-त्वक्-स्रुचः इति त्रयाणां वृत्तौ न पृथग द्वयोवृत्तिः इति न मध्यमस्य निषेधः । वाक्त्वचम् इत्यत्र वृत्त्यन्तत्वाभावेऽपि “समासार्थात् समासान्तः” इति त्वचः न पदत्वम् ॥ ११ ॥
स्-तं मत्वर्थे । १२ । सकारान्तं तकारान्तं च शब्दरूपं मत्वर्थे प्रत्यये परे पदसंज्ञं न भवति । विदुष्मान् । यशस्वी । मरुत्वान् । स्-तम् इति किम् ? राजवान् ॥ १२ ॥
मनुर-नभो-ऽगिरो वति । १३ । एतानि शब्दरूपाणि वति प्रत्यये परे पदसंज्ञानि न भवन्ति । मनुर् इव मनुष्वत् । नभस्वत् । अङ्गिरस्वत् ॥ १३ ॥
उता स्ववर्गस्य । १४ । उकारेण सह उपादीयमानो वर्णः स्ववर्गस्य संज्ञा भवति । “चुना योगे स्त्वोः थू" - [पञ्च० सन्धिः ९ ] तच्शेते । तच्चरति । तच्छादयति ॥ १४ ॥ .
घि: असखि-अद्वन्द्वपति-इदुत् । १५ । सखिशब्दम् अद्वन्द्वावयवं च पतिशब्दं वर्जित्वा शेषम्-इकारान्तम् उकारान्तं च शब्दरूपं घिसंज्ञं भवति ।
१. 'ऊर्णायुः' इति पदे 'ऊर्णा' शब्दस्य 'ऊर्णा यस्य अस्ति' इति विग्रहे प्रथमान्तत्वेन अन्तर्विभक्त्या “विभक्त्यन्तं पदम्" [द्वितीयसन्धि सूत्र ८] इति सूत्रेण सिद्धेऽपि पदत्वे निय. मार्थम् अयम् आरम्भः । अतः 'भागवतम्' इत्यत्र 'भगवतः इदम्' इति विग्रहे 'भगवत्' शब्दस्य पत्रीविभक्तियक्तत्वे सत्यपि "विभक्त्यन्तं पदम्" इति पूर्वोक्तसूत्रेण न पदसंज्ञा ततश्च 'भवदीयम्' इति पदे 'भवत्' इत्यंशस्य अनेन सूत्रेण पदसंज्ञया यथा तस्य दकारो जातः तथा 'भागवतम्' इत्यत्र 'भगवत्' इत्यंशस्य अनेन सूत्रेण पदसंज्ञाया अभावेन 'भागवदम् इति दकारयुक्तं रूपं न जातम् इति नियमफलम् । नियमश्च वृत्तौ स्पष्टतया प्रतिपादित एव ।
२. 'कु' 'चु' इत्येवम् उकारेण सह उपादीयमानो वर्णो बोध्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org