________________
[७
द्वितीयः सन्धिः मानेन अप्रयुज्यमानेन वा विशेषणेन सह प्रयुज्यमानम् अप्रयुज्यमानं वा आख्यातं वाक्य- . संज्ञं भवति ।
धर्मो वो रक्षतु । धर्मो नो रक्षतु । शालीनां ते ओदनं ददाति । कुरु ३ ग्रामं च गच्छे । चैत्रेण वो दातव्यम् । साकाङ्गत्वेऽपि तिबाद्यन्ते भेदेन वाक्यभेदार्थ वचनम् ।
ओदनं पच, तव भविष्यति । वाक्यप्रदेशा:-"पदाद् वाक्यस्य वस्-नसौ बहुत्वे युगविभक्त्या" [ ना० चतु० पादः ४९] इत्येवमादयः ॥ ७॥
विभक्त्यन्तं पदम् । ८। विभक्त्यन्तं पदसंज्ञं भवति ।
धर्मः । कर्म । ब्रूमहे । वः । पदप्रदेशाः- “ एङः पदान्ते अति" [ तृ० सन्धिः २१] इत्येवमादयः ॥ ८ ॥
नं क्ये।९। नकारान्तं शब्दरूपं विभक्त्यन्तं क्ये प्रत्यये परे पदसंज्ञं भवति । 'क्य' इति क्यच्-क्यष्-क्यङां सामान्येन ग्रहणम् ।
राजीयति । चर्मायति, चर्मायते । ऊष्मायते । क्ये इति किम् ? सामन्यः । विभक्त्यन्तमिति किम् ? मन्या । उत्तरत्र नियमाभिधानाद् विभक्त्यन्तस्यापि प्रत्यये परे पदसंज्ञा न प्राप्नोतीति वचनम् ॥ ९ ॥
१. कुरू ३ पा० पू० । २. "कुरुं च ग्रामं च गच्छति"-अमोघ. । .
३. 'राजानम् इच्छति राजीयति' इत्यादिषु प्रयोगेषु 'राजानम्' इत्यादिकानां रूपाणां विभक्तिलोपेऽपि अन्तर्विभक्त्यपेक्षया 'राजपुरुष' इति प्रयोगस्थित 'राज' रूपवत् विभक्त्यन्तत्वेन "विभक्त्यन्तं पदम्" इति पूर्वेण सूत्रेण सिद्धायां पदसंज्ञायां किमर्थम् अस्य सूत्रस्य समारम्भः ? अत्रोच्यते, नियमार्थम् अस्य समारम्भः -नियमश्चैवम् – क्यच्-क्यष् - क्यरूपे क्ये प्रत्यये परे यत् किमपि विभक्त्यन्तत्वेन पदसंज्ञ स्यात् तत् नान्तमेव-- नकारान्तमेव विभक्त्यन्तं स्यात् नान्यत् । अत एव वाचम् इच्छति वाच्यति, सुचम् इच्छति स्रुच्यति इत्यादिकेषु प्रयोगेषु 'वाच् आदिकानां विभक्त्यन्तानाम् सतामपि पूर्वोक्तरूपे क्यप्रत्यये न पदसंज्ञा ततश्च तेषां चकारस्य न कत्वम् । इत्येवं प्रस्तुतं सूत्रं नियमार्थम् ।
४. सामनि साधुः सामन्यः । साम च सामवेदः अथवा सामरूपः उपायः ।....
५. 'मन्या' शब्दे “समज-निषद-निपत-निपद-मन-विद''-(कृदन्तपञ्चम पाद सूत्र ८४) इत्यादिसूत्रेण 'क्यप' प्रत्ययः । अत्र च मूलसूत्र 'क्ये' इति साधारण एव उल्लेखः अतः मूलसूत्रानुसारेण क्य'स्य अविशेषविवक्षायाम् वृत्त्यनुसारेण च नकारान्तशब्दरूपस्य विद्यमानत्वात् 'विभक्त्यन्तम्' इत्यस्य अविवक्षायां च एतत् प्रत्युदाहरणं संभवति अथवा अत्र कोऽपि पाठः पतितः विकृतो वा लिपिकारप्रमादवशतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org