________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
वृक्षः। कुण्डम् । कुमारी। धातु-विभक्तिवर्जमिति किम् ? अहन्। वृक्षान् । अर्थवद् इति किम् ? वृक्षाद्यवयवानां व् ऋक् ष् अ इत्येवमादीनां नामसंज्ञा मा भूत् ॥ २ ॥ 'तिब् 'आदिविभक्तिः । ३ ।
‘तिब्’ आदिः ‘स्यामहि' पर्यन्तो विभक्तिसंज्ञो भवति । विभक्तिप्रदेशाः“ विभक्त्यन्तं पदम् ” [ द्वि० सन्धिः ८ ] इत्येवमादयः ।
६]
"सि औ जस् । अम् औ शस् । टा भ्यां मिस् । ङे भ्याम् भ्यस् । ङसि भ्याम् भ्यस् । ङस् ओस् आम् । ङिओस् सुप् ।
इमानि वचनानि विभक्तिसंज्ञानि भवन्ति ॥ ३॥
पञ्च आदौ घुट् । ४ ।
स्यादीनामादौ पञ्च वचनानि घुट्संज्ञानि भवन्ति । सि औ जसु । अम् औ । घुट्प्रदेशाः “घुटि" इत्येवमादयः || ४ ||
नपि जसू शसौ । ५ । नपुंसकलिङ्गे जस्-शसौ घुट्संज्ञौ भवतः ।
वारीणि । वारीणि । जस्-शसाविति किम् ? वारिणी । जसः पूर्वेणैव सिद्धत्वात् तदुपादानं नपुंसके 'जस्' एव 'घुट्' इति नियमार्थम् ॥ ५ ॥
त्रयी त्रयी प्रथमादिः । ६ ।
स्यादीनां वचनानां त्रयी त्रयी प्रथमादिसंज्ञा भवति ।
ना० तृ० पादः १२ ]
सि औ जस् प्रथमा । अम् औ शम् द्वितीया । टा भ्याम् भिस् तृतीया । ङे भ्याम् भ्यस् चतुर्थी । ङसि भ्याम् भ्यस् पञ्चमी । ङस् ओस् आम् षष्ठी । ङिओस् सुप् सप्तमी । प्रथमादिप्रदेशाः – “नाम्नः प्रथमा एक-द्वि-बहौ" [ ना० सप्त० पादः २ ] इत्येवमादयः ।। ६ ।
सविशेषणम् आख्यातं वाक्यम् । ७ ।
तिबादिविभक्त्यन्तं पदम् आख्यातम् - इति रूढिः । साक्षात् पारम्पर्येण वा प्रयुज्य -
१. अनेन उल्लेखेन अनुमीयते यत् मूलसूत्रे 'सि-तिब्' आदिर्विभक्तिः' इत्येवं शब्दरचना संभवेत् । वृत्तौ अपि 'सि' आदिः 'सुप्' पर्यन्तः तिब्' आदिः 'स्यामहि' पर्यन्तश्च विभक्तिसंज्ञो भवति' इत्येवं शब्दयोजनया भवितव्यम् । परंतु लिपिकारप्रमादवशात् ईदृशी शब्दरचना इति प्रतिभाति ।
नष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org