________________
द्वितीयः सन्धिः
स्वः स्थान-स्पृष्टताद्यै क्ये । १ । स्थानं कण्ठादि-यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिः तत्-पुनरष्टधा । तथा चाहुः
अष्टौ स्थानानि वर्णानाम्-उरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ।। स्पृष्टतादि-स्पृष्टता ईषत्स्पृष्टता विवृतता ईषद्विवृतता । तयोरभेदे वर्णो वर्णस्य स्वः परिभाष्यते ।
___ अवर्ण-कवर्ग-ह-विसर्जनीय-जिह्वामूलीया कण्ठ्याः । " कवर्गः जिह्वामूलः, ह-विसर्जनीयौ उरस्यौ, जिह्वामूलीयः जिह्वयः, सर्वमुखस्थानमवर्णम्" [ ] इति एके। इवर्ण-ए-ऐ-चवर्ग य-शास्तालव्याः । “ए-ऐ कण्ठतालव्यौ ।
] एकेषाम् । उवर्ण-ओ-औ-पवर्ग-उपध्मानीया ओष्ठ्याः । "ओ-औ कण्ठोष्ठ्यौ" [ एकेषाम् । ऋवर्ण-टवर्ग-र-षा मूर्धन्याः । “रेफो दन्तमूलः” [ . ] एकेषाम्। लवर्ण-तवर्ग-ल-सा दन्त्याः । नासिक्यः अनुस्वारः । “कण्ठनासिक्यः" [ ] एकेषाम् । वः दन्त्योष्ठयः । “सृक्कस्थानः" [
] एकेषाम् । स्पृष्टता वाणाम् । ईषत्स्पृष्टता य-र-ल-वानाम् , विवृतता श-ष-स-हानाम् । ए-ओ विवृततरौ, ताभ्याम् ऐ-औ, ताभ्याम् अवर्णः ।
अअअ इति अकारः उदात्तः अनुदात्तः स्वरितश्च । प्रत्येकं च सानुनासिकः निरनुनासिकश्च इति षट् । एवं दीर्ध-प्लुतौ इति अष्टादश वर्णभेदाः कण्ठस्थानाः विवृतकरणाः परस्परस्य स्वे। एवम् इवास्तावन्तस्तालव्याः विवृतकरणाः परस्परस्य स्वे। उवर्णास्तावन्तः ओष्ठ्याः विवृतकरणाः परस्परस्य स्वे । ऋवर्णास्तावन्तो मूर्धन्याः विवृतकरणाः परस्परस्य स्वे । लवर्णास्तावन्तो दन्त्याः विवृतकरणाः परस्परस्य स्वे । एचां हस्वाभावात् प्रत्येक द्वादश भेदाः । तत्र एकारास्तालव्याः विवृततराः परस्परस्य स्खे । ऐकारास्तालव्याः अतिविवृततराः परस्परस्य स्वे । ओकारा ओष्ठ्याः विवृततरा परस्परस्य स्वे। औकाराः ओष्ठ्याः अतिविवृततराः परस्परस्य स्वे ।
य-व-लानाम् अनुनासिकः निरनुनासिकश्च इति प्रत्येकं द्वौ भेदौ परस्परस्य स्वौ। वाः स्ववर्यैः सह परस्परस्य स्वे । रेफ-श-ष-स-हानां तु स्वे न सन्ति ॥१॥
धातु-विभक्तिवर्जम् अर्थवद् नाम । २ । धातु-विभक्तिवर्जम् अर्थवत् शब्दरूपं नामसंज्ञं भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org