________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
अन्यो घोषवान् । १५ । प्रथम-द्वितीय-श-ष-सेभ्यः अन्यः गकारादिवर्णो घोषवत्-संज्ञो भवति ।
ग घ ङ । ज झ ञ । ड ढ ण। द ध न । ब भ म । य र ल व। ह। घोषवत्प्रदेशाः - "घोषवति" [ना० प्रथ० पादः ४ ] इत्येवमादयः ॥ १५ ॥
- अयञ्-पञ्चमो धुट ।१६। यञ्-पञ्चमवर्जितः ककारादिवर्णो धुसंज्ञो भवति ।
क ख ग घ । च छ ज झ । ट ठ ड ढ । त थ द ध । प फ ब भ । श ष स । ह । धुट्प्रदेशाः-'म्नां धुटि अपदान्ते" [ च० सन्धिः १० ] इत्येवमादयः ॥ १६ ॥
य-र-ल-वा यञ् । १७। - एते यञ्संज्ञा भवन्ति । यप्रदेशाः-"ततो यञ्” [च० सन्धिः २४ ] इत्येवमादयः ॥ १७ ॥
अं-अ:-क-(प-श-ष-साः शिट् । १८। एते वर्णाः शिट्संज्ञा भवन्ति । शिटप्रदेशाः-"ताभ्यां शिट्" [च० सन्धिः २६ ] इत्येवमादयः ॥ १८ ॥
आसत्त्या इष्टसिद्धिः। १९। इह इष्ट-अनिष्टकार्यप्रसङ्गे स्थान-गुण-प्रमाणादीनाम् आसत्त्या इष्टस्यैव कार्यस्य सिद्भिर्वेदितव्या ।
तत्र स्थानासत्या दीर्घः - लोकाग्रे । मुनीन्द्रः ॥ गुणेन---"क्तेऽनिटः च-जः कुः घिति" [ आख्या० अष्ट० पा० २६ ] पाकः, त्यागः । चकारस्य अघोषस्य अल्पप्राणस्य कुः-तादृश एव ककारः। जकारस्य घोषवतः अल्पप्राणस्य निरनुनासिकस्य तादृश एव मकारः ॥ प्रमाणेन ~~"अवर्णस्य अदसः दः मः अस्माद् वर्णो गुवर्णश्च अषि-नि असन्" [ ना० द्विती० पा० ८] अमुम् । अमू । मात्रिकस्य मात्रिकः, द्विमात्रस्य द्विमात्रः ॥ अर्थन--"पुंवत् कर्मधारये" [ ना० नव० पा० ८७] दारदवृन्दारिका । अत्र 'दरत्'शब्दस्य तदर्थो दारदभावः । वर्गाणां प्रथम-तृतीय-पञ्चमा य-र-ल-वाश्च अल्पप्राणाः अन्ये महाप्राणाः इति पूर्वेषां स्मृतिः ।। १९ ॥
इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्वृत्तौ प्रथमः सन्धिः समाप्तः ॥ १ “चकारस्य अघोषस्य अल्पप्राणस्य" । "जकारस्य घोषवतः अल्पप्राणस्य"-अमोघ० । २. अल्पप्रमाणस्य पा० ।
३. वृत्तौ “स्थान-गुण-प्रमाणादीनाम् आसत्त्या' इत्यत्र ‘आदि' शब्दनिर्देशेन 'अर्थेन' इत्यादिकम् संग्राह्यम् तस्य च उदाहरणम् इदम् ।
४. अस्य उल्लेखस्य वृत्तिस्थित 'गुण' इति पदेन सम्बन्धः तत्र अल्पप्राणस्य अल्पप्राणविधेनिदर्शनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org