________________
१४) आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
माने पुनर् 'आर्' ग्रहणं परमपि आरं प्राक्तनो हस्वो बाधते इति ज्ञापनार्थम् तेन पूर्वत्र हस्चो वा भवत्येव----प्रऋणम् । सुखऋतः ॥ १७ ॥
वा नामधातौ । १८ । उपसर्गस्य संबन्धिनः अवर्णस्य ऋकारादौ नामधातौ परे परेण स्वरेण सहितस्य आर् आदेशो वा भवति, पक्षे यथाप्राप्तम् ।
उपार्षभीयति, उपर्षभीयति, उपऋषभीयति। ऋतीति किम् ? ऋकारे अर् एव-- उपर्कारीयति ॥ १८ ॥
___लृति आल । १९ । उपसर्गस्य संबन्धिनः अवर्णस्य लकारादौ नामधातौ परे परेण स्वरेण सहितस्य आल् आदेशो वा भवति । उपाल्कारीयति, उपकारीयति, उपलकारीयति ॥ १९ ।।
एङि एङ् । २०। उपसर्गस्य संबन्धिनः अवर्णस्य एङादौ नामधातौ परे परेण स्वरेण सहितस्य एङ् आदेशो वा भवति । उपेकीयति, उपैकीयति । प्रोषधीयति, प्रौषधीयति ॥ २० ॥
अनिधि । २१ । 'वा' इति निवृत्तं पृथग्वचनात् । इण्-एध्वर्जिते एकादौ धातौ परे परेण स्वरेण सहितस्य उपसर्गसंबन्धिनः अवर्णस्य एआदेशो भवति । प्रेलयति । 'प्रोषयति । अनिणेधीति किम् ? उपैति । उपैधते ।। २१ ॥
एङः पदान्ते अति । २२। पदान्ते वर्तमानस्य एङः अकारे परेण स्वरेण सहितस्य यथासंख्यम् एङ् आदेशो भवति । अय्-अवोः अपवादः ।। तेऽत्र । पटोऽत्र । पदान्ते इति किम् ? नयनम् । लवनम् ॥ २२ ॥
__ गोः ओद् वा । २३ । 'सपरस्वरस्य' इति निवृत्तम् 'ओ'वचनात् । गोशब्दसंबन्धिनः एङः पदान्ते वर्तमानस्य अकारे ओकार आदेशो वा भवति ।
१. उप+ऋकारीयति । २. उप+एकीयति । ३. प्र+ओषधीयति । ४. प्र+एलयति । ५. प्र ओषयति । ६. उप+एति । ७. उप+एधते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org