SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ तद्धिते नवमः पादः [ ३६५ 'परदार आदीन् गच्छति । २९ । 'परदार'आदिभ्यः द्वितीयान्तेभ्यः 'गच्छति' इत्यर्थे इकण् प्रत्ययो भवति । परदारान् गच्छति पारदारिकः । गौरुदारिकः । 'परदार' आदयः प्रयोगगम्याः॥२९॥ प्रतिपथात् इकः च । ३० । 'प्रतिपथ'शब्दात् द्वितीयान्तात् 'गच्छति' अर्थे इकः इकण च प्रत्ययो भवति । पन्थानं प्रति पथः अभिमुखं वा गच्छति प्रातिपथिकः, प्रतिपथिकः ।। ३० ॥ समूहार्थात् समवेते । ३१ । 'समूह'वाचिनः 'तत्' इति द्वितीयान्तात् समवेते अर्थे इकण् प्रत्ययो भवति । समूहं समवेतः सामूहिकः । सामाजिकः ॥ ३१॥ पर्षदः ण्यः । ३२ ।। 'पर्षत्'शब्दात् द्वितीयान्तात् समवेते अर्थे ‘ण्य' प्रत्ययो भवति । पार्षद्यः ।। ३२ ॥ सेनाम् वा । ३३ । 'सेना'शब्दात् द्वितीयान्तात् समवेते अर्थे ‘ण्य' प्रत्ययो वा भवति । सैन्यः, सैनिकः ॥ ३३ ॥ अवृद्धेः गृह्णति गर्थे । ३४ 'तत्' इति द्वितीयान्तात् 'वृद्धि'शब्दवर्जात् गर्थे 'गृह्णति' अर्थे इकण् प्रत्ययो भवति । ___ द्वैगुणिकः-अल्पं दत्त्वा बहु गृह्णन् अन्यायकारी निन्द्यते । अवृद्धेः इति किम् ? वृदि गृह्णाति । गर्थे इति किम् ? द्विगुणं गृह्णाति अधमर्णः ।। ३४ ॥ कुसीदात् इकट् । ३५ । 'तत्' इति द्वितीयान्तात् 'कुसीद'शब्दात् 'गृह्णति' अर्थे इकट् प्रत्ययो भवति । कुसोदं गृह्णाति कुसीदिकः ।। ३५ ॥ दशैकादशात् इकः च । ३६ । 'तत्' इति द्वितीयान्तात् 'दशैकादश'शब्दात् 'गर्ये गृह्णति' अर्थे 'इक' प्रत्ययो भवति इकट् च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy