________________
३६४ ]
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
वस्नः मूल्यम् तेन जीवति वस्निकः । क्रयिकः । विक्रयिकः । क्रयविक्रयिकः ॥ २२॥ आयुधात् ईयश्च । २३ ।
'आयुध' शब्दात् 'तेन जीवति' इत्यर्थे ईयः इकश्च प्रत्ययो भवति । आयुधीयः । आयुधिकः ॥ २३ ॥
व्रातीनञ् । २४ ।
‘व्रात’शब्दात् ‘तेन जीवति' इत्यर्थे ईनञ् प्रत्ययो निपात्यते ।
'वात' शब्दः प्रागुक्तार्थः तत्कर्म अपि व्रातम् तेन जीवति व्रातिनः तेषामेव अन्यतमः नान्यः । निपातनं रूढ्यर्थम् । ञित्वं च पुंभावाभावार्थम् - वातीनाभार्यः ॥ २४ ॥ व्यञ्जनैः उपसिक्ते । २५ ।
व्यञ्जनवाचिनः तृतीयान्तात् उपसिक्ते अर्थे इकण् प्रत्ययो भवति ।
सूपेन उपसिक्तः सौपिकः । व्यञ्जनैः इति किम् ? उदकेन उपसिक्तः । बहुवचनं स्वरूपनिरासार्थम् ॥ २५ ॥
ओजस्-सहस्-अम्भसा वर्तते । २६ ।
‘ओजस्’प्रभृतिभ्यः 'तेन' इति तृतीयान्तेभ्यः 'वर्तते' इत्यर्थे इकण् प्रत्ययो भवति । वृत्ति: आत्मयापनम् चेष्टा वा ।
ओजसा बलेन वर्तने औजसिकः । सहसा प्रसहनेन पराभिभवेन साहसिकः । अम्भसा जलेन आम्भसिकः ।। २६ ।।
प्रति-अनोः लोम-ईप-कूलात् । २७ ।
'तत्' इति द्वितीयान्तात् 'प्रति'- 'अनु' पूर्वात् लोम-ईप- कूलान्तात् 'वर्तते' इत्यर्थे इक प्रत्ययो भवति ।
प्रतिलोम वर्तते प्रातिलोमिकः । प्रातीपिकः । प्रातिकूलिकः । आनुलोमिकः । आन्वीपिकः । आनुकूलिकः । सर्वत्र क्रियाविशेषणात् प्रत्ययः ॥ २७ ॥
परेः मुख-पार्श्वात् । २८ ।
'परि' पूर्वाभ्यां ' मुख' - 'पार्श्व' शब्दाभ्यां द्वितीयान्ताभ्याम् ' वर्तते' इत्यर्थे इक प्रत्ययो भवति ।
Jain Education International
परिमुखं वर्तते पारिमुखिकः । परिः वर्जने सर्वतो भावे वा । स्वामिनः मुखं वर्जयित्वा यद्वा यतः यतः स्वामिनः मुखम् ततः ततः वर्तते इत्यर्थः । एवम् पारिपार्श्विकः ॥ २८ ॥
For Private & Personal Use Only
www.jainelibrary.org