________________
तद्धिते नवमः पादः
[ * 'क'उपान्त्यात् 'कुलत्थ'शब्दात् च 'तेन संस्कृते' अर्थे अण् प्रत्ययो भवति ।। तिन्तिडिकेन संस्कृतम् तैन्तिडिकम् । कौलत्थम् ॥ १६ ॥
हरति 'उत्सङ्ग आदेः। १७ । 'उत्सङ्ग'आदिभ्यः 'तेन' इति तृतीयान्तेभ्यः 'हरति' इत्यर्थे इकण् प्रत्ययो भवति ।
औत्सङ्गिकम् । उत्सङ्ग उड्डुप उत्रुप उत्पुत पिटक पिटाक इति 'उत्सङ्ग' आदिः ।। १७ ॥
'भस्त्रा'आदेः इकट् । १८ । एभ्यः 'तेन हरति' इत्यर्थे इकट् प्रत्ययो भवति ।।
भस्त्रिकः । भस्त्रिकी। भस्त्रा भरट भरण शीर्षेभार अङ्गेभार इति 'भस्त्रा' आदिः ॥ १८ ॥
विवध-वीवधात् वा। १९ । आभ्याम् 'हरति' इति अर्थे इकट् प्रत्ययो वा भवति ।
विवधेन हरति विवधिकः । वीवधिकः । 'विवेध-वीवध' शब्दौ पथि पर्याहारे च वर्तेते ॥ १९ ॥
कुटिलिकाया अण् । २० । 'कुँटिलिका' शब्दात् 'हरति' अर्थे अण् प्रत्ययो भवति । 'कुटिलिकया' अङ्गारान् हरति कौटिलिकः कारः ॥ २० ॥
'वेतन आदेः जीवति । २१ । 'वेतन'आदिभ्यः 'तेन जीवति' इत्यर्थे इकण प्रत्ययो भवति ।
वेतनेन जीवति वैतनिकः । वेतन वाह अर्धवाह धनुर्दण्ड जाल वेश उपवेश उपस्था उपस्थान सुख शय्या शक्ति उपनिषत् स्फिक् बाल उपदेश पाद इति वेतन' आदि ॥२१॥
वस्न-क्रय-विक्रयेभ्यः इकः । २२ । एभ्यः 'तेन जीवति' इत्यर्थे 'इक' प्रत्ययो भवति ।
१. "विवधो वीवधो भारे पर्याहार-अध्वनोरपि"-हैमअनेकार्थसंग्रहे श्लो० ९४८ निर्णयः । पर्याहारो ध्यानम् । २. ""कुटिलिका'शब्देन अग्रवका लोहादिमयी अङ्गाराकर्षणी, यष्टिर वा, कुटिला गतिर्वा, पलालोरक्षेपणः अग्रेवको दण्डो वा, परिव्राजकोपकरणविशेषो वा, चौराणां नौगृहाद्यारोहणाथै दामाग्रप्रतिबद्धः आयसः अर्धाडशो वा उच्यते' सिद्धहेम-६।४।२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org