________________
३६२] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । श्वगणिकः, श्वागणिकः ॥ ८ ॥
निवृत्ते 'अक्षयूत'आदेः । ९। 'अक्षत'आदिभ्यः 'तेन निर्वृत्ते' अर्थे इकण प्रत्ययो भवति ।
अक्षयूतेन निवृत्तम् आक्षयूतिकं वैरम् । अक्षयूत जङ्घाग्रहत पादस्वेदन कण्टकमर्दन शर्करामर्दन यातायात गतागत इति ‘अक्षयूत' आदि ॥ ९ ॥
भावात् इमः । १० । भाववाचिनः 'तेन निर्वृत्ते' अर्थे 'इम'प्रत्ययो भवति ।
पाकेन निवृत्तम् पाकिमम् । सेकिमम् । त्यागिमम् । रागिमम् । कुटिमम् । संमूर्छिमम् ।। १० ॥
___ याचित-अपमित्यात् कण् । ११ । आभ्याम् ‘तेन निवृत्ते' अर्थे कण् प्रत्ययो भवति ।
याञ्चा-याचितम् तेन निर्वृत्तम् याचितकम् । अपमित्य-प्रतिदानेन–निर्वृत्तम् आपमित्यकम् ॥ ११ ॥
ट: जित-जयत्-दीव्यत्-खनत्सु । १२ । 'तेन' इति तृतीयान्तात् 'जित'आदिषु अर्थेषु इकण् प्रत्ययो भवति । अक्षः जितः जयति दीव्यति आक्षिकः । कुद्दालेन खनति कौदालिकः ॥ १२ ॥
तरति । १३।। 'तेन' इति तृतीयान्तात् 'तरति' अर्थे इकण प्रत्ययो भवति । गोपुच्छेन तरति गौपुच्छिकः ॥ १३ ॥
नौ-डिस्वरात् इकः । १४ । 'नौ'शब्दात् द्विस्वरात् च 'तेन तरति' इत्यर्थे 'इक' प्रत्ययो भवति । नाविकः । बाहुकः ॥ १४ ॥
संस्कृते । १५ । 'तेन' इति तृतीयान्तात् संस्कृते इकण प्रत्ययो भवति । सतः उत्कर्षाधानं संस्कारः। दध्ना संस्कृतं दाधिकम् ॥ १५ ॥
'क'उपान्त्य-कुलस्थात् अण् । १६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org