SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ तद्धिते नवमः पादः इकण् । १। इतः ऊर्ध्वम् अपवादविषयं परित्यज्य इकण् प्रत्ययः अधिकृतः वेदितव्यः ॥ १ ॥ तेन संसृष्टम् । २। 'तेन'इति तृतीयान्तात् संसृष्ट अर्थे इकण प्रत्ययो भवति । संसृष्टम्-संभिन्नम्एकीभूतम् । दध्ना संसृष्टं दाधिकम् ॥ २ ॥ चूर्ण-मुद्गात् इन्-अण् । ३ । 'चूर्ण'-'मुद्ग'शब्दाभ्याम् संसृष्टे अर्थे यथासंख्यम् ‘इन्' 'अण्' प्रत्ययो भवतः । चूर्णिनः अपूपाः । मौद्गी यवागूः ॥ ३ ॥ लवणात् अः।४। 'लवण'शब्दात् तेन संसृष्टे अर्थे 'अ'प्रत्ययो भवति । लवणः सूपः ॥ ४ ॥ चरति । ५। 'तेन' इति तृतीयान्तात् 'चरति'अर्थे इकण् प्रत्ययो भवति । हस्तिना चरति गच्छति हास्तिकः । दध्ना चरति-भक्षयति-दाधिकः ॥ ५ ॥ पर्प'आदेः इकट् । ६। 'पर्प'आदिभ्यः 'तेन' इति तृतीयान्तेभ्यः 'चरति अर्थे इकट् प्रत्ययो भवति । पर्पिकः । पर्पिकी । पर्प अश्वत्थ व्यास इति 'पर्व' आदिः ॥ ६ ॥ पदिकः ।७। 'पाद'शब्दात् 'तेन चरति' अर्थे इकट् प्रत्ययो भवति 'पत्' च अस्य । पादाभ्यां चरति पदिकः ॥ ७ ॥ श्वगणात् वा।८। 'श्वगण'शब्दात् 'तेन चरति' अर्थे इकट् प्रत्ययो वा भवति । ४६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy