________________
३६६] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
एकादशार्थाः दश दशैकादशाः तान् गृह्णाति दशैकादशिकः, स्त्री दशैकादशिका, दशैकादशिको । 'इक-इकटोः' स्त्रियां विशेषः । 'दशैकादशात्' इति अत एव निपातनात् अकारान्तत्वम् तच्च वाक्ये प्रयोगार्थम्-दशैकादशान् गृह्णाति ॥ ३६॥
___ धर्म-अधर्मी चरति । ३७ । आभ्यां द्वितीयान्ताभ्याम् 'चरति' अर्थे इकग् प्रत्ययो भवति । चरति सेवायां वर्तते-तात्पर्येण अनुष्ठाने । धर्म चरति धार्मिकः । आधर्मिकः ।। ३७ ॥
मीने-मत्स्य-पक्षि-मृगअर्थात् प्रति । ३८। 'मीन'शब्दात् 'मत्स्य'आदिअर्थात् च द्वितीयान्तात् 'नति-हन्तरि' अर्थे इकण् प्रत्ययो भवति ।
मीनान् हन्ति मैनिकः । मात्सिकः । पक्षिन्-पाक्षिकः । शाकुनिकः । मायूरिकः । मृग-मार्गिकः । नैयङ्ककः । सौकरिकः । अर्थग्रहणं स्वरूप-पर्यायविशेषपरिग्रहार्थम् । 'मीन'ग्रहणात् अन्यस्य 'मत्स्य'पर्यायस्य न भवति-अजिह्मान् हन्ति । अनिमिषान् हन्ति ।। ३८ ॥
परिपन्थं तिष्ठति च । ३९।। 'परिपन्थ'शब्दात् तिष्ठति हन्ति च अर्थे इकण् प्रत्ययो भवति । परिपन्थं तिष्ठति हन्ति वा पारिपन्थिकः ॥ ३९ ॥
रक्षत्-उञ्छतोः। ४० । 'तत्' इति द्वितीयान्तात् रक्षति उञ्छति च अर्थे इकण् प्रत्ययो भवति । समाज रक्षति सामाजिकः । नागरिकः । बदराणि उञ्छन् बादरिकः । नैवारिकः ॥४.०॥
'सुस्नात'आदीन् पृच्छति । ४१ । १. 'दशभिः एकादश दशैकादशाः"-हैम-६।४।३६।
२. “पक्षि-मत्स्य-मृगान् हन्ति" काशिका ४।४।३५। “पक्षि-मत्स्य-मृगार्थात् प्नति" हैम-६।४।३१। इत्यत्र न क्वापि 'मीन'ग्रहणम्। 'मीन-मत्स्य-पक्षिमृगार्थात् नति"-शाक. ३।२॥३२॥ "मीनग्रहणात् अन्यस्य मत्स्यपक्ष्यर्थस्य न भवति-अजिहमान् हन्ति । अनिमिषान् हन्ति" । इति शाक. चिन्ता वृ०। “अथ अजिमान् हन्ति, अनिमिषान् हन्ति इत्यत्र कस्मात् न भवति? नेतत् मत्स्यस्य स्वरूपम् न विशेषः न पर्यायः अपि तु असाधारणं विशेषणम् । यथा जिह्मगा भुजगाः, अनिमिषा देवा इति" हैमम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org