________________
तद्धिते अष्टमः पादः
। ३५९ एयण् प्रत्ययो भवति सा चेत् 'परिखा स्यात्' इति संभाव्या भवति ।
परिखा आसाम् इष्टकानाम् पारिखेय्यः इष्टकाः । 'स्यात्' इति किम् ? परिखा इष्टकानाम् । परिणामिनि इति किम् ? परिखा अस्य नगरस्य स्यात् ॥ ४७ ॥
अत्र च । ४८॥ ___ 'परिणामिनि' इति निवृत्तम् योगविभागात् । 'परिखा' शब्दात् प्रथमान्तात् 'अत्र' इति सप्तम्यर्थे एयण् प्रत्ययो भवति ।
परिखा अस्यां स्यात् पारिखेयी भूमिः । 'च'शब्दः उत्तरत्र 'अस्य स्यात्' 'अत्र च' इति उभयानुवृत्त्यर्थः ॥ ४८ ॥
तत् । ४९। __'तत्' इति प्रथमान्तात् 'स्यात्' इति संभाव्यात् 'अस्य' इति षष्ठ्यर्थे परिणामिनि 'अत्र' इति सप्तम्यर्थे च यथाधिकृतं प्रत्ययो भवति ।
परशुः अस्य स्यात् परशव्यम् अयः । प्रासादः अस्यां स्यात् प्रासादीया भूमिः ।। ४९ ।।
तस्य अर्हे क्रियायां वत् । ५० । 'तस्य' इति षष्ठयन्तात् नाम्न: 'अर्हति' इति अहम् तस्मिन् अर्हरूपे अर्थे 'वत्' प्रत्ययो भवति ।
राज्ञः अहम् राजवत् वृत्तम् अस्य-राजत्वस्य युक्तम् अस्य राज्ञः वृत्तम् इत्यर्थः । एवम् कुलीनवत् । साधुवत् । क्रियायाम् इति किम् ? राज्ञः अहः मणिः ॥ ५० ॥
स्यादेः इवे । ५१। 'इव'शब्दः सादृश्यं द्योतयति तच्च सादृश्यं क्रियाविषयम् द्रष्टव्यम् । 'स्यादि'अन्तात् नाम्नः ‘सादृश्य विषये 'वत्' प्रत्ययो भवति ।
क्षत्रिया इव क्षत्रियवत् युध्यन्ते विप्राः । देवम् इव देववत् पश्यन्ति मुनिम् । साधुना इव साधुवत् आचरितं श्राद्धेन । ब्राह्मणाय इव ब्राह्मणवत् दत्तं चैत्रेण । पर्वतात् इव पर्वतवत् अवरोहति प्रासादात् । स्यादेः इति किम् ? गच्छन् आस्ते इव मन्दत्वात् ईप्सितदेशस्य अप्राप्तेः । क्रियायाः विषयम् इति किम् ? पुत्रेण सह स्थूलः । पुत्रेण तुल्यः पिङ्गलः । पुत्रग तुल्यः गोमान् । अत्र 'गुण'आदिविषये सादृश्ये न भवति ॥ ५१ ॥
१. जैनश्रावकरूपे अर्थे अयं श्राद्धशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org