SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सर्व-महतः इकण् । ४१। सर्व महद्भ्याम् 'जन'अन्ताभ्यां कर्मधारये तस्मै हिते इकण भवति । सार्वजनिकः । माहाजनिकः ॥ ४१ ।। सर्वात् णः वा । ४२ । 'सर्व'शब्दात् तस्मै हिते णो वा भवति पक्षे ईयः । सर्वेभ्यः हितः सार्वः । सर्वीयः ॥ ४२ ॥ परिणामिनि तदर्थे । ४३ । तस्मै इति 'चतुर्थ्यन्त'अर्थे परिणामिनि अभिधेये यथाविहितं प्रत्ययः भवति । तद्भावः परिणामः । अङ्गारेभ्यः काष्ठानि अङ्गारीया] गि-अङ्गारार्थानि इत्यर्थः । आमिक्ष्यम् , आमिक्षीयम् दधि । ओदन्याः, ओदनीयाः तन्दुलाः । आपूप्यम् , आपूपीयं पिष्टम् । शङ्कव्यं दारु । परिणामिनि इति किम् ? उदकाय कूपः । तदर्थे इति किम् ? मूत्राय यवागूः, उच्चाराय यवान्नं संपद्यते न तु तदर्थम् ॥ ४३ ।। चर्मणि अञ् । ४४ । _ 'तस्मै' इति चतुर्थ्यन्तात् तदर्थे परिणामिनि चर्मणि वाच्ये 'अ' प्रत्ययो भवति । वर्धाय इदम् वाईम् चर्म ॥ ४४ ॥ ऋषभ-उपानहात् व्यः । ४५ । 'ऋषभ'-'उपानह'शब्दाभ्याम् चतुर्थ्यन्ताभ्यां 'तदर्थे परिणामिनि' इत्यर्थे 'य' प्रत्ययो भवति । आर्षभ्यः वत्सः । औपाना काष्ठम् । औपानह्यं चर्म इति चर्मणि अपि परत्वात् अयमेव ॥ ४५ ॥ छदिष-बलेः एयण । ४६ । आभ्यां चतुर्थ्यन्ताभ्याम् तदर्थे परिणामिनि एयण् प्रत्ययो भवति । छदिषे इमानि छादिषेयाणि तृणानि । छादिषेयं चर्म । बालेयाः तन्दुलाः ॥ ४६॥ परिखा अस्य स्यात् । ४७. 'परिखा'शब्दात् निर्देशात् एव प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे परिणामिनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy