________________
तद्धिते अष्टमः पादः
[ ३५७ वत्सेभ्यः हितः वत्सीयः । पित्रीयः । आमिक्ष्यः, आमिक्षीयः । युग्यः । शुन्यः । शून्यः ॥ ३४॥
न राज-आचार्य-ब्राह्मण-वृष्णः । ३५ । एभ्यः चतुर्थ्यन्तेभ्यः हिते अधिकृतः प्रत्ययो न भवति । राज्ञे आचार्याय ब्राह्मणाय वृष्णे वा हितः इति वाक्यमेव ॥ ३५ ॥ रथ-खल-तिल-यव-माष-वृष-ब्रह्म-प्राण्यगात् यः। ३६.। 'रथ'आदिभ्यः प्राण्यङ्गवाचिभ्यश्च तस्मै हिते 'य' प्रत्ययो भवति ।
रथाय हिता रथ्या भूमिः । खल्यम् अग्निरक्षणम् । तिल्यः वायुः । यव्यः तुषारः । माष्यः वातः । वृष्यम् क्षीरपाणम् । ब्रह्मण्यः देशः । दन्तेभ्यः हितम् दन्त्यम् । कर्ण्यम् । चक्षुष्यम् । नाभ्यम् । सादे:-अश्वरथ्या भूमिः ।। ३६ ॥
प्थ्यः अज-अवेः। ३७ । 'अज'-'अवि'भ्याम् तस्मै हिते 'प्थ्य'प्रत्ययो भवति ।
अजेभ्यः हितम् अजथ्यम् । अविथ्यम् । पकारः पुंभावार्थ:-अजाभ्यः हिता अजथ्या यूथिका ॥ ३७ ॥
माणव-चरकात् ईनञ् । ३८ । 'माणव'-चरकाभ्याम् तस्मै हिते ईनञ् प्रत्ययो भवति । माणवेभ्यः हितः माणवीनः । चारकीणः ॥ ३८ ॥ .
"भोग'उत्तरपद-आत्मन्भ्यां ईनः । ३९ । 'भोग'उत्तरपदात् 'आत्मन्'शब्दात् च तस्मै हिते 'ईन' प्रत्ययो भवति ।
मातृभोगाय हितः मातृभोगीणः । आत्मने हितः आत्मनीनः । नकारोच्चारणात् न लुक् ।। ३९ ॥
पञ्च-सर्व-विश्वात् जनात् कर्मधारयात् । ४०। 'पञ्च'आदिभ्यः परः यः 'जन'शब्दः तदन्तात् कर्मधारयात् तस्मै हिते 'ईन' प्रत्ययो भवति ।
पञ्चभ्यः जनेभ्यः हितः पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः । कर्मधारयात् इति किम् ? पञ्चानां जनाय हितः पञ्चजनीयः । सर्वजनीयः । विश्वजनीयः ।। ४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org