________________
३५६] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'सीता'शब्दात् तृतीयान्तात् परः संगते अर्थे 'य' प्रत्ययो भवति । सीतया संगतं सीत्यम् । द्विसीत्यम् ॥ २८ ॥
ईयः । २९ । इतः ऊर्ध्वम् आतदः 'ईय' प्रत्ययः अधिकृत्य वेदितव्यः ॥ २९ ॥
हविर्-अन्नभेद-'अपूप'आदेः यः वा । ३० । 'हविर्भेदवाचिनः 'अन्न भेदवाचिनः अपि 'अपूप'आदिभ्यश्च आतदः अर्थेषु 'य' प्रत्ययः अधिकृतः वेदितव्यः ।
आमिक्ष्यम् , आमिक्षीयम् । ओदन्याः, ओदनीयाः तन्दुलाः । अपूप्यम् , अपूपीयम् । सादि-यवापूप्यम् , यवापूपीयम् । उवर्णान्तात् हविर्-अन्नभेदवाचिनः अपि परत्वात् नित्यं 'य' प्रत्ययः-चरव्याः तन्दुलाः । अपूप तन्दुल अभ्यूष किण्व मुसल कटक कर्णवेष्टक स्थूल पूप सूप प्रदीप अश्व पत्र इति 'अपूप' आदि ॥ ३० ॥
उवर्ण-'युग'आदेः यः। ३१ । ‘उवर्ण'अन्तात् 'युग'आदेश्च आतदः अर्थेषु यः भवति ।
शङ्कव्यं दारु । युग्यम् । हविष्यम् । युग हविस् मेधा शुच रूप बीज कूप अक्षर स्थल विष इति 'युग' आदि ॥ ३१ ॥
शुन्य-शून्य-ऊधन्य-नभ्याः । ३२ । एते आतद्रः अर्थेषु 'य' प्रत्ययान्ता निपात्यन्ते ।
'श्वन्' शब्दात् 'य' प्रत्ययः शुन् शून् च आदेशः । श्वभ्यः हितम् शुन्यम् , शून्यम् । ऊधसे हितम् ऊधन्यम् । नाभये हितम् नभ्यम् अञ्जनम् । प्राण्यङ्गात् तु न भवतिनाभ्यं तैलम् ॥ ३२ ॥
कम्बलात् नाम्नि । ३३ । 'कम्बल'शब्दात् आतदः अर्थेषु नाम्नि 'य' प्रत्ययो वेदितव्यः ।
कम्बलः अस्य स्यात् कम्बल्यम् ऊर्णापलशतम् । नाम्नि इति किम् ? कम्बलीया ऊर्णा ।। ३३ ॥
तस्मै हिते । ३४। 'तस्मै' इति चतुर्थ्यन्तात् [ हिते' अर्थे यथाविहितं प्रत्ययो भवति । उपकारक हितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org