________________
तद्धिते अष्टमः पादः एते यथास्वम् अर्थविशेषे 'य'प्रत्ययान्ता निपात्यन्ते ।
वशं गतः वश्यः-गुरोविधेयः इत्यर्थः, इह न भवति–वशं गतः इच्छां प्राप्तः । पथः अनपेतम् पथ्यम्-ओदनम् इत्यादि । वयसा तुल्यः वयस्यः सखा, इह न भवति–वयसा तुल्यः शत्रुः । धेनुण्या-ऋणप्रदानाय दोहार्थ या प्रदीयते सा धेनुः । गृहपतिना संयुक्तः गार्हपत्यः अग्निः । जनीम् वधूम् हरन्तः जन्याः जामातृवयस्या उच्यन्ते । जनस्य जल्पः जन्यः । धर्मेण प्राप्यं धर्म्य सुखम् ततः अनपेतं वा धर्म्यम् । हृदयस्य प्रियम् हृद्यम् औषधम् , यद्वा हृदयस्य बन्धनम् हृद्यम् , वशीकरणमन्त्रः हृद्यः । मूलम् एषाम् उत्पाट्यम् मूल्या मुद्गाः, माषाः, मूलेन पटादि उत्पत्तिकरणेन पाट्यम् सुवर्णादि मूल्यम् , मूलेन समः मूल्यः पटः उपादानेन समानफल इत्यर्थः ॥ २२ ॥
'देवता'अन्तात् तदर्थे । २३ ।। 'देवता'अन्तात् शब्दात् तदर्थे 'य'प्रत्ययो भवति अर्थात् 'चतुर्थी'अन्तात् प्रत्ययो भवति । अग्निदेवतायै इदम् अग्निदेवत्यम् पितृदेवत्यम् देवदेवत्यं हविः आदि ॥ २३ ॥
पाद्य-अर्ये । २४ ।। 'पाद्य'--'अर्घ्य' शब्दौ तदर्थे 'य' अन्तौ निपात्येते । पादार्थम् पाद्यम् उदकम् । अर्घार्थम् अय॑म् रत्नम् ॥ २४ ॥
ण्यः अतिथेः । २५ । 'अतिथि' शब्दात् तदर्थे ‘ण्य'प्रत्ययो भवति । अतिथ्यर्थम् आतिथ्यम् ।। २५ ॥
सादेश्व आतदः । २६ । 'तत्' इति सूत्रं यावत् केवलस्य सादेश्च वक्ष्यमाणः विधिः वेदितव्यः ॥ २६ ॥
हलस्य कर्षे । २७। 'हल' शब्दात् केवलात् सादेश्च निर्देशात् एव षष्ठ्यन्तात् कर्षे अर्थे 'य'प्रत्ययो भवति । हलस्य कर्षः हल्यः । द्वयोः हलयोः कर्षः द्विहल्यः ॥ २७ ॥
सीतया संगते । २८ । १ "जनी वहन्ति-" हैमसूत्रवृत्तौ। गुजरातीभाषायाम्-जणी, जान, जन्य-जानैयो। हिन्दीभाषायाम्-बारात बाराती ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org