________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । आत्मनः अन्येन करणेन विध्यति । पद्याः शर्कराः । अनन्येन इति किम् ? चोरं विध्यति देवदत्तः धनुषा ॥ १५ ॥
. धन-गणात् लब्धरि । १६ । 'धन'-'गण'शब्दाभ्याम् 'तत्' इति द्वितीयान्तात् लब्धरि अर्थे 'य' प्रत्ययो भवति । धनं लब्धा धन्यः । गण्यः । ॥ १६ ॥
णः अन्नात् । १७ । 'अन्न'शब्दात् द्वितीयान्तात् लब्धरि अर्थे 'ण' प्रत्ययो भवति । अन्नं लब्धा आन्नः ॥ १७ ॥
मत-मदस्य करणे । १८ । आभ्यां निर्देशात् एव षष्ठयन्ताभ्यां करणे वाच्ये 'य' प्रत्ययो भवति । मतस्य करणं मत्यम् । मद्यम् ॥ १८ ॥
न्याय-अर्थात् अनपेते । १९ । 'न्याय'-'अर्थ'शब्दाभ्यां निर्देशात् एव पञ्चम्यन्ताभ्याम् अनपेते अर्थे 'य' प्रत्ययो भवति । न्यायात् अनपेतम् न्याय्यम् । अर्थ्यम् ॥ १९ ॥
नौ-विषेण तार्य-वध्ये । २० । 'नौ'-'विष'शब्दाभ्यां निर्देशात् एव तृतीयान्ताभ्यां यथासंख्यं तार्ये वध्ये च अर्थे 'य'प्रत्ययो भवति । नावा तार्यम् नाव्यम् । विषेण वध्यः विष्यः ॥ २० ॥
__ पदम् अस्मिन् दृश्यम् । २१ । 'पदम्'इति प्रथमान्तात् दृश्यत्वोपाधिकात् 'अस्मिन्' इति सप्तम्यर्थे 'य' प्रत्ययो भवति ।
पदम् अस्मिन् दृश्यम् पद्यः कर्दमः ॥ २१ ॥ वेश्य-पथ्य-वयस्य-धेनुष्या-गार्हपत्य-जन्य-धर्म्य-हृद्य-मूल्याः । २२ ।
१. “नौ-वयस्-धर्म-विष-मूल-मूल-सीता-तुलाभ्यः ० इत्यादि'-काशिका-४१४।९१। तथा “हृद्यपद्य-तुल्य-मूल्य-'हैम-७१।११। इति एतौ वैयाकरणौ आभ्यां सूत्राभ्यां 'तुल्य'शब्दमपि व्युत्पादयन्ति । शाकटायनस्तु तथा न करोति, अयमपि आचार्यः तथैव करोति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org