________________
तद्धिते अष्टमः पादः
[ ३५३ कथादेः इकण् । ८। 'कथा'आदिभ्यः तत्र साधौ अर्थे इकण् प्रत्ययो भवति । कथायां साधुः काथिकः । वैकथिकः । कथा विकथा इत्यादि ॥ ८ ॥
वहति स्थ-प्रासङ्गान् । ९। 'रथ-प्रासङ्ग'शब्दाभ्यां निर्देशात् एव द्वितीयान्ताभ्यां 'वहति' अर्थे 'य' प्रत्ययो भवति । रथं वहति रथ्यः । प्रासङ्गः-वक्रं वत्सदमनस्कन्धकाष्ठम्-तत् वहति प्रासङ्गयः ॥९॥
धुरः य-एयणौ । १०। 'धूः'शब्दात् द्वितीयान्तात् 'वहति' अर्थे 'य-एयण' प्रत्ययौ भवतः धुर्यः । धौरेयः ॥ १० ॥
'वाम'आद्यआदेः ईनः। ११ । 'वाम'आदिपूर्वात् 'धुर् 'अन्तात् 'वहति' अर्थे 'ईन' प्रत्ययो भवति । वामधुरं वहति वामधुरीणः । सर्वधुरीणः । उत्तरधुरीणः । दक्षिणधुरीणः ॥ ११ ॥
अश्व 'एक'आदेः । १२ । 'एक'शब्दपूर्वात् 'धुर्'अन्तात् 'वहति' अर्थे 'अ' प्रत्ययो भवति ईनश्च । एकधुरः । एकधुरीणः ॥ १२ ॥
शकटात् अण् । १३।। 'शकट'शब्दात् 'तत् वहति' अर्थे अण् प्रत्ययो भवति । शकटं वहति शाकटः गौः ॥ १३ ॥
हल-सीरात् इकण् । १४ । आभ्याम् 'तत् वहति' अर्थे इकण् प्रत्ययो भवति । हालिकः । सैरिकः ॥ १४ ॥
विध्यति अनन्येन । १५ । 'तत्' इति द्वितीयान्तात् 'विध्यति' अर्थे 'य' प्रत्ययो भवति । न चेत् विध्यन् १. "तद् वहति रथ-युग-प्रासङ्गम्"-काशिका ४।४।७६। “वहति रथ-युग-प्रासङ्गात्' हैम१२। "वहति रथ-प्रासङ्गात"-शाक. ३१२।१८२। श्रीमलयगिरिः शाकटायनमनुसरति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org