________________
तद्धिते अष्टमः पादः
यः । १ ।
अधिकारः अयम् — अपवादविषयं परिहृत्य 'यः' इति अधिकृतं वेदितव्यम् ॥ १ ॥ तत्र साधौ । २ ।
'तत्र' इति सप्तम्यन्तात् साधौ अर्थे 'य' प्रत्ययो भवति ।
सामनि साधुः सामन्यः । कर्मण्यः । शरण्यः । सभ्यः । साधुः योग्य: प्रवीणः उपकारको वा ॥ २ ॥
भक्तात् णः । ३।
'भक्त' शब्दात् तत्र साधौ अर्थे 'ण' प्रत्ययो भवति । भाक्तः शालिः ॥ ३ ॥
Jain Education International
परिषदः ण्यश्च । ४। 'परिषत् ' शब्दात् तत्र साधौ ण्यः भवति णश्च । परिषदि साधुः पारिषद्यः पारिषदः ॥ ४ ॥ सर्वजनात् ईनश्च । ५ ।
सर्वजनात् तत्र साधौ ईनः ण्यश्व भवतः । सार्वजन्यः, सार्वजनीनः ॥ ५ ॥
'प्रतिजन ' आदेः | ६ |
एभ्यः तत्र साधौ अर्थे 'ईन' प्रत्ययो भवति ।
प्रतिजनीनः । अनुजनीनः । प्रतिजन अनुजन इत्यादि ॥ ६ ॥ पथि अतिथि- वसति-स्वपतेः एयणू । ७।
एभ्यः तत्र साधौ अर्थे यण् प्रत्ययो भवति ।
पाथेयम् | आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ ७ ॥
१. " साधुः इह प्रवीणः योग्यो वा गृह्यते नोपकारकः, तत्र हि परत्वात् 'तस्मै हितम्' इत्यनेन भवितव्यम्" - काशिका ४|४|९८ ।
For Private & Personal Use Only
www.jainelibrary.org