SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ तद्धिते सप्तमः पादः [ ३५१ पटुः प्रकारः अस्य पटुजातीयः, । कथंजातीयः । यथाजातीयः । था-थमौ प्रकारमात्रे, 'यथाजातीयः' इत्यत्र जातीयर् प्रकारवति इति । रेफः विशेषणार्थः ॥ ६९ ॥ कः 'अणु'आदेः। ७०। 'अणु'आदिभ्यः तद् अस्य प्रकारे 'क' प्रत्ययो भवति । अणु: प्रकारः अस्य अणुकः । अणु स्थूल इत्यादि ॥ ७० ॥ कृष्ण-यव-जीर्ण-सुरा-अवदात-गोमूत्रात् तिल-व्रीहि शालि-अहि-सुरा-आच्छादने । ७१। 'कृष्ण'आदिभ्यः यथासंख्य 'तिल'आदिषु अर्थेषु तद् अस्य प्रकारे इत्यर्थे 'क' प्रत्ययो भवति । कृष्णः प्रकार: एषां कृष्णकाः तिलाः, अन्यः कृष्णजातीयः । एवम् उत्तरत्र अपि । यवप्रकाराः यवकाः व्रीहयः । जीर्गप्रकाराः जीर्णकाः शालयः । सुराप्रकारः सुरावर्णः सुरकः अहिः-सर्पः । अवदातप्रकारः अवदातिका सुरा । गोमूत्रप्रकारम् गोमूत्रकम् आच्छादनम् ॥ ७१ ॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने तद्धिते सप्तमः पादः ॥ १. था-थमौ प्रकारमात्रे। जातीयर् प्रकारवति इति तदन्तादपि भवति । रेफ इत्- 'अरित् स्वार्थे' [ २।२।१८। शा• चिन्ता ] । इति पर्युदासार्थः"-३।३।१७९ शा• अ.।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy