________________
३५० ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । दामिनी । प्रथमिनी । अब्जिनी । कमलिनी । अब्ज कमल इत्यादि ।। ६२ ।।
हस्त-दन्त-करात् जातौ । ६३ । 'हस्त'आदिभ्यः मत्वर्थे 'इन्' एव भवति समुदायेन चेत् जातिः वाच्या स्यात् । हस्ती । दन्ती । करी । जातौ इति किम् ? हस्तवान् ॥ ६३ ॥
'पुष्कर'आदेः देशे। ६४।। 'पुष्कर'आदिभ्यः मत्वर्थे देशे 'इन्' एव प्रत्ययो भवति । पुष्करिणी । पमिनी । देशे इति किम् ? पुष्करवान् हस्ती । पुष्कर पद्म इत्यादि ॥६४॥
वर्णात् ब्रह्मचारिणि । ६५। 'वर्ण'शब्दात् मत्वर्थे 'इन्' एव प्रत्ययो भवति स चेत् मत्वर्थः ब्रह्मचारी स्यात् ।
वर्गी-वर्ग:--ब्रह्मचर्यम् -सः अस्य अस्ति इति-ब्रह्मचारी इत्यर्थः । वर्णवान् अन्यः ॥ ६ ॥
ईयः सूक्त-साम्नि । ६६ । सूक्ते साम्नि च मत्वर्थे 'ईय' प्रत्ययो भवति । अनुवाकीय सूक्तम् । यज्ञायज्ञीयं साम । 'सूक्त'आदयः ग्रन्थविशेषाः ।। ६६ ॥
___ग्लुक् वा अध्याय-अनुवाके । ६७। अध्याये अनुवाके च मत्वर्थे यः 'ईय' प्रत्ययः तस्य लुक् वा भवति, अत एव 'लुक' वचनात् अध्याय-अनुवाकयोः ईयः अनुमीयते ।
गर्दभाण्डः अस्मिन् अस्ति अध्याये अनुवाके वा गर्दभाण्डः गर्दभाण्डीयः अध्यायः अनुवाको वा । द्रुमेपुष्पः द्रुमपुष्पीयो वा अध्यायः ॥ ६७ ॥
___ 'विमुक्त आदेः अण् । ६८। एभ्यः मत्वर्थे अध्याये अनुवाके च अण् प्रत्ययो भवति । वैर्मुक्तः अध्यायः अनुवाको वा । विमुक्त देवासुर इत्यादि ॥ ६८ ॥
प्रकारे अस्य जातीयर् । ६९ । 'तत्' इति प्रथमान्तात् 'अस्य' इति षष्ठ्यर्थे जातीयर् प्रत्ययो भवति, यत् तत् प्रथमान्तम् तत् चेत् प्रकारः स्यात् ।
१. दशवैकालिकनामके जनमूलसूत्रे एतनामकः प्रथमः अध्यायः ।
२. आचाराङ्गनामके प्रथमअङ्गरूपे जैनसूत्रे द्वितीयश्रुतस्कन्धे चतुर्थचूलार पं पञ्चविंशतितमम् एतनामकम् अध्ययनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org