________________
तद्धिते सप्तमः पादः
[ ३४९ द्वन्द्व-रुग्-निन्द्यात् प्राणिस्थात् अस्वाङ्गात् । ५५।।
प्राणिस्थः अस्वाङ्गार्थः यः द्वन्द्वः अदन्तः, यश्च रुग्वाची, निन्द्यार्थश्च तस्मात् मत्वर्थे इन् प्रत्ययो भवति । कटकवलयी । रुग्-कुष्ठी । किलासी । निन्द्य-ककुदावर्ती । प्राणिस्थात् इति किम् ? पुष्पफलवान् वृक्षः । अस्वाङ्गात् इति किम् ? स्तनकेशवती । यथा 'अतः अनेकस्वरात्' [ प्रस्तुते पादे १४ सूत्र ] इत्येव सिद्धे नियमार्थम् तेन प्रत्युदाहरणं व्यवच्छेद्यम् ॥ ५५ ॥
धर्म-शील-वर्णअन्तात् । ५६ । 'धर्म-शील-वर्ण' इति एतदन्तात् मत्वर्थे 'इन्' एव प्रत्ययो भवति । मुनिधर्मी । यतिशीली । ब्रह्मवर्णी ।। ५६ ॥
___'बाहु'-'ऊरु'आदेः बलात् । ५७ । 'बाहु'पूर्वात् 'ऊरु' पूर्वात् 'बल' शब्दात् मत्वर्थे 'इन्' एव भवति । बाहुबली । ऊरुबली ॥ ५७ ॥
'सुख'आदेः। ५८। एभ्यः मत्वर्थे 'इन्' एव भवति । सुखी । दुःखी । सुख दुःख इत्यादि । ५८ ॥
मालायाः क्षेपे । ५९ । 'माला'शब्दात् 'इन्' एव भवति क्षेपे गम्यमाने । माली । क्षेपे इति किम् ? मालावान् ।। ५९ ॥
वात-अतीसार-पिशाचात् कक् च । ६० । 'वात'आदिभ्यः मत्वर्थे इन् भवति कक् चैषाम् आगमः । वातकी । अतीसारकी । पिशाचकी ॥ ६० ॥
पूरणात् वयसि । ६१ । 'पूरण'प्रत्ययान्तात् वयसि गम्यमाने मत्वर्थ इन् प्रत्यय एव भवति । पञ्चमः मासः संवत्सरः वा अस्य अस्ति इति पञ्चमी बालः ॥ ६१ ।।
'मन्'-'म'अन्तात् अब्जादेः नाम्नि । ६२ । 'मन्'-'म' इत्येवम्-अन्तात् 'अब्ज'आदेश्च 'इन्' एव प्रत्ययो भवति समुदायश्चेत् नाम स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org