________________
३४८] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । गुण्यः ना । हिम्यः गिरिः । गुणवान् । 'गुण'आदयः प्रयोगगम्याः ॥ ४८ ॥
रूपात् प्रशस्त-आहतात् । ४९ । ___ 'रूप'शब्दात् 'प्रशस्त'उपाधिकात् 'आहत'उपाधिकाच्च परः मत्वर्थे यः प्रत्ययो भवति ।
प्रशस्तं रूपम् अस्य अस्ति रूप्यः गौः । आहतं रूपम् अस्य अस्ति रूप्यः कार्षापगः । प्रशस्त-आहतात् इति किम् ? प्रशंसायाम्-रूपवती कन्या ॥ ४९ ।।
पूर्णमासः अण् । ५० । 'पूर्णमास्'शब्दात् मत्वर्थे अण् प्रत्ययो भवति । पूर्णः माः-मासः-अस्याः अस्ति इति पौर्णमासी ॥ ५० ॥
'गो'आदेः अतः इकण् । ५१ । 'गो'पूर्वपदात् अकारान्तात्' मत्वर्थे 'इकण्' प्रत्ययो भवति । गौशतिकः । अतः इति किम् ? गोविंशतिमान् ॥ ५१ ॥
'निष्क' आदेः शत-सहस्रात् । ५२ । 'निष्कपूर्वाभ्यां 'शत'-'सहस्र'शब्दाभ्यां मत्वर्थं इकण् प्रत्ययो भवति ।
नैष्कशतिकः । नैष्कसहस्रिकः । 'निष्क' आदेः इति किम् ? शती। सहस्री । 'आदि'ग्रहणात् सुवर्णनिष्कशतम् अस्य अस्ति इत्यादौ च न भवति ॥ ५२ ।।
'एक'आदेः कर्मधारयात् । ५३ । 'एक'शब्दपूर्वात् कर्मधारयात् अकारान्तात् मत्वर्थे इकण् प्रत्ययो भवति ।
एका गौः एकगवः सः अस्य अस्ति इति ऐकगविकः । कर्मधारयात् इति किम् ? एकस्याः गौः एकगवः स अस्य अस्ति इत्यत्र न भवति । अतः इति किम् ? एकविंशतिः अस्य अस्ति इति ॥ ५३ ॥
'सर्व'आदेः इन् । ५४ । 'सर्व'शब्दपूर्वात् कर्मधारयात् अकारान्तात् मत्वर्थे इन् प्रत्ययो भवति । सर्वधनी । सर्वबीजी ॥ ५४ ।।
१. "निघातिकाताडनाद् दीनारादिषु यद् रूपमुत्पद्यते तद् आहतं रूपम्"-३।३.१५९।अ. ।
शा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org