________________
तद्धिते सप्तमः पादः एभ्यः मत्वर्थे 'अ' प्रत्ययो भवति । अभ्रं नभः । अभ्र अर्शस् उरस् इत्यादि ॥ ४१ ॥
तपस्-स्रग्-माया-मेधा-असः विन् । ४२। 'तपः'शब्दात् 'स'शब्दात् 'माया-मेधा'शब्दाभ्याम् 'अस्'अन्तात् च मत्वर्थे विन् प्रत्ययो भवति ।
तपस्वी । स्रग्वी । मायावी । मेधावी । यशस्वी । मतौ तपस्वान् इत्यादि । मायी, मायिकः इति 'व्रीहि'आदिपाठात् ॥ ४२ ॥
आमयात् दीर्घश्च । ४३ । 'आमय' शब्दात् मत्वर्थे विन् प्रत्ययो भवति तद्योगे च प्राक् दीर्घः । आमयावी, आमयवान् ॥ ४३ ॥
स्वात् मिन् ईशे । ४४। 'स्व'शब्दात् मत्वर्थे ईशे मिन् प्रत्ययो भवति तद्योगे च प्राक् दीर्घः । स्वामी ईशः । स्ववान् अन्यः ।। ४४ ॥
गोः। ४५। 'गो'शब्दात् मत्वर्थे ईशे मिन् प्रत्ययो भवति । गोमी । गोमान् ॥ ४५ ॥
ऊर्जः विन्-वलौ अस्कः । ४६ । 'ऊ'शब्दात् मत्वर्थे विन्-वलप्रत्ययौ भवतः तद्योगे च अस्क' आगमः । ऊर्जस्वी, ऊर्जस्वलः, ऊवान् ।। ४६ ॥
तमिस्रा-अर्णव-ज्योत्स्ना । ४७ । एते मत्वर्थे निपात्यन्ते ।
तमः अस्य अस्ति इति तमिस्रा । तमिस्राणि गुहामुखानि । अर्णः अस्य अस्ति इति-अर्णवः-समुद्रः । ज्योतिः विद्यते यस्याः सा ज्योत्स्ना चन्द्रप्रभा ॥ ४७ ॥
गुणादिभ्यः यः । ४८ । एभ्यः मत्वर्थे यः प्रत्ययो भवति । १. “असक् च आगमः'' ३।३।१५१। शा० अ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org