________________
१४४] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
प्रज्ञा-पर्ण-उदक-फेनात् ल-इलो । १९ । एभ्यः मत्वर्थे 'ल'-'इल'प्रत्ययौ भवतः । .
प्रज्ञालः, प्रज्ञिलः । पर्णलः, पर्णिलः । उदकलः, उदकिलः । फेनलः, फेनिलः । मतौ प्रज्ञावान् इत्यादि ॥ १९ ॥
काला-जटा-घाटात् क्षेपे । २० । एभ्यः शब्देभ्यः मत्वर्थे 'ल'-'इल' प्रत्ययौ भवतः क्षेपे प्रत्ययार्थस्य गम्यमाने ।
कालालः, कालिलः । जटालः, जटिलः । घाटालः, घाटिलः । क्षेपे इति किम् ? कालावान् । क्षेपः मतुना न गम्यते इति तत्र मतुर्न भवति ॥ २० ॥
वाचः आल-आटौ। २१ । 'वाच' शब्दात् मत्वर्थे 'आल-आट' प्रत्ययौ भवतः क्षेपे गम्यमाने ।
वाचालः, वाचाटः । यः बहुनिस्सारं भाषते सः एवं क्षिप्यते । क्षेपे इति किम् ? वाग्मी, वाग्वान् ॥ २१ ॥
मिन् । २२। वाचः मत्वर्थे मिन् प्रत्ययो भवति । " वाग्मी, वाग्वान्-प्रशस्तवाक् ॥ २२ ॥
_ 'मधु'-'कृषि' आदिभ्यः र-वलौ । २३ । 'मधु'आदेः 'कृषि'आदेश्च मत्वर्थे यथासंख्यं 'र'-'वल' इत्येतौ प्रत्ययौ भवतः ।
मधुरः रसः । मधुरं मधु । 'मधु' शब्दात् अभिधानतः गुणसामान्ये गुणे वर्तमानात् रः भवति न तु द्रव्यवृत्तेः । मतो मधुमान् । खरः रासभः । खवान् अन्यः । मुखरः वाचालः । मुखवान् अन्यः । नगरं पुरम् । नगवत् अन्यत् । ऊपरं क्षेत्रम् । ऊषवान् अन्यः । मुष्करः पशुः । मुष्कवान् अन्यः इत्यादि । कृषीवल: । आसुतीवलः । कृषिमान् । कृषि आसुति इत्यादि ॥ २३ ॥
वृन्दात् आरकः । २४ । 'वृन्द' शब्दात् मत्वर्थे 'आरक' प्रत्ययो भवति । वृन्दारकः वृन्दवान् ॥ २४ ॥
शृङ्गात् । २५ । 'शृङ्ग' शब्दात् मत्वर्थे 'आरक' प्रत्ययो भवति ।
१ "काडाजटाघाटात् क्षेपे"- ३।३।१२२॥इति शाकटायनीयम् सूत्रम् । २ “ग्मिन् " -३।३।१२४ शा०। “गकारः अनुनासिकनिवृत्यर्थः"- इति शा. चि०। हैमेऽपि एवमेव
७॥२॥२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org