________________
तद्धिते सप्तमः पादः .. . [३४३ व्रीहिकः, व्रीही, व्रीहिमान् । मायिकः, मायी, मायावान् । 'व्रीहि' आदयः प्रयोगगम्याः ॥ १३ ॥
अतः अनेकस्वरात् । १४। अकारान्तात् अनेकस्चरात् मत्वर्थे 'इक'-'इन्' प्रत्ययौ भवतः ।
दण्डिकः, दण्डी, दण्डवान् । अनेकस्वरात् इति किम् ? खवान् । “कारकवान् सिंहवान् दण्डवती शाला इति क्रिया-जातिशब्दाभ्यां सप्तम्यर्थे इक-इनौ न भवतः" [ ] इति एके। तथा रूप-रस-गन्ध-स्पर्शेभ्यः गुणवाचिभ्यः अथ कचिद् दृश्यते । कार्यिकः, कार्यां । तन्दुलिकः, तन्दुली । खलिनी भूमिः । रूपिणी । रसिकः नटः इति, तद् अत्र अभिधानतः व्यवस्था । 'इति' शब्दश्च सर्वत्र अनुवर्तते ॥ १४ ॥
अशिरसः अशीर्षश्च । १५ । 'अशिरस्' शब्दात् मत्वर्थे 'इक'-'इन्' प्रत्ययौ भवतः तद्योगे च 'अशीर्ष' आदेशः । अशीर्षिकः, अशीर्षी, अशीर्षवान् ॥ १५ ॥
अर्थ-अर्थान्तात् भावात् । १६ । । अर्थात् 'अर्थ'अन्तात् च शब्दात् भाववाचिन एव मत्वर्थे इक-इनौ एव भवतः ।
अर्थनम् अर्थः सः अस्य अस्ति इति अर्थिकः, अर्थी । प्रतीपम् अर्थनम् प्रत्यर्थः सः अस्य अस्ति इति प्रत्यर्थिकः, प्रत्यर्थी । 'इक-इनौ एव' इति नियमात् मतुर्न भवति । भावात् इति किम् ? अर्थ:-हिरण्य' आदिः-अस्य अस्ति इति अर्थवान् ।। १६ ॥
"बीहि'अर्थ-'तुन्द'आदेः इलश्च । १७ । 'बीहि'अर्थेभ्यः 'तुन्द'आदिभ्यश्च मत्वर्थे 'इल' प्रत्ययो भवति इक-इनौ च ।
शालिलः, शालिकः, शाली, शालिमान् । तुन्दिलः, तुन्दिकः, तुन्दी, तुन्दवान् । तुन्द उदर पिचण्ड यव इति 'तुन्द'आदि ॥ १७ ॥
स्वाङ्गात् विवृद्धात् ते । १८ । स्वाङ्गवाचिनः विवृद्धोपाधिकात् मत्वर्थे इल-इक-इन् प्रत्यया भवन्ति ।
विवृद्धौ महान्तौ कर्णौ अस्य स्तः कर्णिलः, कर्णिकः, कर्णी, कर्णवान् । अन्यत्र इलो न भवति ॥ १८ ॥
१. "तथा रसरूपस्पर्शगन्धशब्दस्नेहेभ्यश्च गुणवाचिभ्यो दृश्यते च क्वचित्''-३।३।१५२। शा० अ० । २. "अर्थी याञ्चायाम् अर्थनम् अर्थः"-३।३।१५५। शा• अ० । ३. "स्वाज्ञात विवृद्धात्' ३।३।१५७१ शा० ।
स्नेहेभ्यश्च गुणवाचिभ्यो झयते च कचित ३३१००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org