SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३४२1 आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । सिध्मादि-रुग्-क्षुद्रजन्तोः । ८ । 'सिध्म'आदिभ्यः रुग्वाचिभ्यः क्षुद्रजन्तुवाचिभ्यश्च मत्वर्थे 'ल' प्रत्ययो भवति । सिध्मलः । गडुलः । सिध्मवान् । गडमान् । पाणीलः । धमनीलः । 'पार्णीधमनी'शब्दौ दीर्घान्तौ एव गणे पठ्येते तेन हस्वान्ताभ्यां मतुः एव । सिध्म गडु इत्यादि । रुक्-विचर्चिकालः, विचर्चिकावान् । क्षुद्रजन्तु-मक्षिकालः, मक्षिकावान् ॥ ८ ॥ 'ज्योत्स्ना'आदिभ्यः अण् । ९ । एभ्यः मत्वर्थे अण् प्रत्ययो भवति । ज्योत्स्नः पक्षः । तामिस्र नभः । ज्योत्स्नावान् । तमिस्रावान् । 'ज्योत्स्ना' आदयः प्रयोगगम्याः ॥ ९ ॥ सिकता-शर्करात् । १०। आभ्यां मत्वर्थे अण् प्रत्ययो भवति । सैकतः, सिकतावान् । शार्करः, शर्करावान् ॥ १० ॥ ___ इलः च देशे। ११ । सिकता-शर्कराभ्यां देशे मत्वर्थे इल अग् च प्रत्ययो भवति । सिकतिलः, सैकतः, सिकतावान् । शर्करिलः, शार्करः, शर्करावान् देशः ॥ ११ ॥ 'नौ'-'शिखा'आदिभ्याम् इक-इनौ । १२ । 'नौ'आदिभ्यः 'शिखा'आदिभ्यश्च मत्वर्थे यथासंख्यम् ‘इक'-'इन्' प्रत्ययौ भवतः । नाविकः, नौमान् । [ कुमारिकः कुमारीमान् ] । नौ कुमार यवखंदा इति 'नौ'आदि । शिखी, शिखावान् । शिखा माला इत्यादि ॥ १२ ॥ 'व्रीहि आदेः। १३ । 'व्रीहि'आदिभ्यः मत्वर्थे 'इक'-'इन्' प्रत्ययौ भवतः । १. काशिकायाम् 'यवखद'-५।२।११६।- इति दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy