________________
तद्धिते सप्तमः पादः 'वीरपुरुषाः अस्मिन् ग्रामे सन्ति' किन्तु बहुव्रीहिः एव-वीरपुरुषः प्रामः । संज्ञारूपात् तु स्यात्-गौरखरवत् अरण्यम्'। गुणे गुणिनि च ये शब्दाः ते योऽपि न-शुक्लः अस्य अस्ति । ये तु गुणमात्रे तेभ्यः भवत्येव-रूपवान् । शौक्लयवान् ॥ १ ॥
आ यात् । २। 'य' प्रत्ययम् अभिव्याप्य याः प्रकृतयः निर्देश्यन्ते ताभ्यः 'तत् अस्य अस्ति' 'अस्मिन्' वा इति विषये ‘मतु' प्रत्ययो भवति । शाकीमान् । वातवान् ॥ २ ॥
नः अङ्गादेः । ३। 'अङ्ग' आदेः मत्वर्थे 'न' प्रत्ययो भवति ।
अङ्गानि अस्याः सन्ति अङ्गना-रूढिशब्दोऽयम् तेन-कल्याणाङ्गी स्त्री उच्यते, अन्यत्र अङ्गवान् । पामनः, पामवान् । अङ्ग पामन्' इत्यादि ॥ ३ ॥
शाकी-पलाली-दर्दूभ्यः हूस्वश्च । ४। एभ्यः शब्देभ्यः मत्वर्थे न प्रत्ययो भवति, हस्वश्च एषाम् अन्तादेशः। महत् शाकम् शाकी । महत् पलालम् पलाली । “पलालम्-पलालक्षोदः" [ ] इति एके । दर्दू व्याधिः ।
शाकिनः । पलालिनः । दर्दुगः । 'आ यात्' । [प्रस्तुते पादे सू० २] इति वचनात् मतु-शाकीमान् । पलालीमान् । दर्दूमान् ॥ ४ ॥
वात-दन्त-बल-ललाटात् ऊलः।५। एभ्यः मत्वर्थे 'ऊल' प्रत्ययो भवति । वातूलः । दन्तूलः । बल्लूलः । ललाटूलः । मतौ वातवान् इत्यादि ॥ ५ ॥
प्रज्ञा-श्रद्धा-अर्चा-वृत्ते णः । ६ । एभ्यः शब्देभ्यः मत्वर्थे 'ण' प्रत्ययो भवति । प्राज्ञः । श्राद्धः । आर्चः । वार्तः । मतौ प्रज्ञावान् इत्यादि ॥ ६ ॥
प्राण्यगात् आतः लः । ७। प्राण्यङ्गात् आकारान्तात् मत्वर्थे 'ल' प्रत्ययो भपति ।
चूडालः । जङ्घाल: । चूडावान् । जङ्घावान् । प्राण्यङ्गात् इति किम् ? जङ्घावान् प्रासादः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org