________________
आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
अभ्यमित्रम् अलंगामी अभ्यमित्रीयः । अभ्यमित्र्यः | अभ्यमित्रीणः- अमित्राभिमुखं भृशं गन्ता इत्यर्थः ॥ १३ ॥ समांसमीन-अद्यश्वीन अद्यप्रातीन आगवीन - साप्तपदीनाः | १४|
एते 'ईन-ईनञ्' प्रत्ययान्ता निपात्यन्ते - 'समाम् समाम्' इति वीप्साद्वितीयान्तसमुदायात् 'गर्भं धारयति' अर्थे 'ईन' प्रत्ययो भवति पूर्वस्यादेव लुक् ।
३४० ]
समां समां धारयति इति समांसमीना गौः । अन्ये “समायां समायां गर्भ विमुञ्चति इति समांसमीना " [ ] इति आहुः । अद्य वः वा विजनिष्यते अद्यश्वीना प्रत्यग्रप्रसवा इत्यर्थः । अन्ये “प्रत्यासन्ने भविष्यति अर्थे प्रत्ययम्” [ ] आहुः - अद्य श्वः वा भवि ष्यति अद्यश्वीनं मरणम् | अद्यश्वीनः वियोगः । एवम् अद्य प्रातः वा अद्यप्रातीना गौः, मरणादि वा । आगवीनः - आगो प्रतिदानात् कर्मकरः एवम् उच्यते । सप्तभिः पदैः अवाप्यम् साप्तपदीनं सख्यम् । अत्र ईनञ् ॥ १४ ॥
तद् अस्य अस्ति अस्मिन् वा इति मतुः । १ ।
'तत्' इति प्रथमान्तात् 'अस्ति' इत्येवमुपाधिकात् 'अस्य' इति षष्ठ्यर्थे 'अस्मिन् ' इति सप्तम्यर्थे वा 'मतु' प्रत्ययो भवति ।
गावः अस्य सन्ति गोमान् । अस्ति - धनम् तत् अस्य अस्ति अस्तिमान् । स्वस्ति आरोग्यम् तत् अस्य अस्ति स्वस्तिमान् । वृक्षाः अस्मिन् सन्ति इति वृक्षवान् पर्वतः । 'अस्ति' इति किम् ? गावः अस्य आसन् भविष्यन्ति वा । 'इति' करणः विवक्षार्थः । तेन"भूम - निन्दा - प्रशंसासु नित्ययोगेऽतिशायने ।
संसर्गे 'अस्ति' विवक्षायां प्रायः 'मतु' आदयः मताः" ॥
भूम्नि–गोमान् । निन्दायाम् - ककुदावर्ती । प्रशंसायाम् - रूपवान् । नित्ययोगे क्षीरिणः वृक्षाः । अतिशायने - उदरवती कन्या । संसर्गे-दण्डी । प्रायिकम् एतत् 'भूम' आदिदर्शनम् सत्तामात्रेऽपि दृश्यते - व्याघवान् पर्वतः । 'मतु' अर्थीयात् 'मतु'अर्थीयः सरूपो न भवति - 'गोमन्तः अस्य सन्ति ' अत्र पुनः मतुः न भवति । विरूपस्तु भवति - . दण्डिमती शाला । विरूपोऽपि समायां वृत्तौ न भवति - दण्डः एषाम् अस्ति इति दण्डिनः, 'ते अस्य सन्ति' इति मतुः न भवति । न च असंज्ञाभूतात् कर्मधारयात् मत्वर्थीय:
१. “आगोप्रतिदानं कारी आगवीनः कर्मकरः " - हैम - ७।१।१०५ १ २. खण्डितानि सूत्राणि । अतः १-२-३ - इति क्रमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org