SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ तद्धिते सप्तमः पादः शृङ्गारकः, शृङ्गवान् । योगविभागः उत्तरार्थः ॥ २५ ॥ __ फल-बहीत् च इनः । २६ । 'फल-बर्ह'शब्दाभ्याम् 'शृङ्गशब्दात् च 'इन' प्रत्ययो भवति मत्वर्थे । फलिनः । बर्हिणः । शङ्गिणः । फलवान् । शिखादित्वात्–फली । बहीं ॥ २६ ॥ मलात् ईमसश्च । २७ । 'मल'शब्दात् मत्वर्थे ईमसः चकारात् इनश्च प्रत्ययो भवति । मलीमसः । मलिनः । मलवान् ॥ २७ ॥ द्यु-द्रुभ्यां मः। २८ । आभ्यां मत्वर्ये 'म' प्रत्ययो भवति । द्युमः । द्रुमः । रूढिशब्दौ इमौ तद्विषये मतुर्न भवति, अन्यत्र मतुरेव-द्युमान् । द्रुमान् ॥ २८ ॥ कृपा-हृदयाभ्याम् आलुः । २९ । आभ्यां मत्वर्थे 'आलु' प्रत्ययो भवति । कृपालुः, कृपावान् । हृदयालुः, हृदयिकः, हृदयी, हृदयवान् ॥ २९ ॥ दन्तात् उन्नतात् उरः । ३० । 'दन्त'शब्दात् 'उन्नत'उपाधिकात् मत्वर्थे 'उर' प्रत्ययो भवति । दन्तुरः । 'उन्नतात्' इति किम् ? दन्तवान् ॥ ३० ॥ कच्छ्वा हुरः । ३१। 'कच्छू' शब्दात् मत्वर्थे 'उर' प्रत्ययो भवति । . कच्छुरः, कच्छूमान् ॥ ३१ ॥ काण्ड-आण्ड-भाण्डात् ईरः । ३२। एभ्यः मत्वर्थे 'ईर' प्रत्ययो भवति । काण्डीरः, काण्डवान् । आण्डीरः, आण्डवान् । भाण्डीरः, भाण्डवान् ॥ ३२ ॥ मेधा-रथाभ्याम् इरः वा । ३३ । आभ्यां मत्वर्थे इरः वा भवति । मेधिरः, मेधावी, मेधावान् । रथिरः, रथिकः, रथी, रथवान् ।। ३३ ।। १. काण्ड-अण्डात् ईरच ।४।२।११५ । चान्द्र० । ५।२।१११ । काशिका । अण्डीरः । का। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy