________________
तद्धिते द्वितीयः पादः
[३३५ आभ्याम् असमासविषयाभ्यां तस्य भावे कर्मणि च वाच्ये अण् प्रत्ययो भवति।
हार्दम् , हृदयत्वम् , हृदयता । पौरुषम् , पुरुषत्वम् , पुरुषता । असमासे इति किम् ? परमहृदयत्वम् । 'परमहार्दम्' 'परमपौरुषम्' इति मा भूत् । अत एव निषेधात् सापेक्षात् अपि भावप्रत्ययः, तेन काकस्य कार्ण्यम् इत्यादि सिद्धम् ॥ ३१ ॥
श्रोत्रियात् यलुक् च । ३२।। 'श्रोत्रिय' शब्दात् तस्य भावे कर्मणि च वाच्ये अण् प्रत्ययो भवति, तद्योगे च 'य'लुक् । श्रोत्रम् , श्रोत्रियत्वम् , श्रोत्रियता ॥ ३२ ॥
कपि-ज्ञातेः एयण । ३३ । आभ्यां तस्य भावे कर्मणि च वाच्ये एयण प्रत्ययो भवति । कापेयम् । ज्ञातेयम् । कपित्वम् । ज्ञातित्वम् । कपिता । ज्ञातिता ॥ ३३ ॥
'य'उपान्त्यात् गुरूपोत्तमात् वुञ् । ३४ । त्रिप्रभृतीनाम् अन्त्यम् उत्तमम् , तत्समीपम् उपोत्तमम् , तद् गुरुः यस्य तस्मात् 'य'उपान्त्यात् तस्य भावे कर्मणि च वाच्ये वुञ प्रत्ययो भवति ।
रामणीयकम् , रमणीयत्वम् , रमणीयता । आचार्यकम् । 'गुरु' ग्रहणात् अनेकव्यञ्जनव्यवधानेऽपि भवति । गुरुग्रहणम् हि दीर्घ-संयोगपरार्थम् अन्यथा 'दीर्घोपोत्तमात्' इत्येव उच्येत । गुरूपोत्तमात् इति किम् ? क्षत्रियत्वम् । कायत्वम् ॥ ३४ ॥
'चौर'आदेः। ३५ ।। एभ्यः तस्य भावे कर्मणि च वाच्ये वुञ् प्रत्ययो भवति । चौरिका । चौरत्वम् , चौरता । एवम्-सैतिका इत्यादि ॥ ३५ ॥
द्वन्द्वात् लित् । ३६ । द्वन्द्वात् समासात् तस्य भावे कर्मणि च वाच्ये वुञ् भवति स च लित् । शैष्योपाध्यायिका, शिष्योपाध्यायत्वम् , शिष्योपाध्यायता ॥ ३६ ॥ गोत्र-चरणाभ्यां श्लाघा अत्याकार-प्राप्ति-अवाये । ३७।
गोत्रवाचिनः चरणवाचिनश्च परः तस्य भावे कर्मणि च वाच्ये वुञ् प्रत्ययो भवति 'श्लाघा' आदिविषये । अत्याकारः अधिक्षेपः । अवायः निश्चयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org