________________
३३४ आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
'पति'अन्तेभ्यः-अधिपतेः भावः कृत्यम् वा आधिपत्यम् । प्राजापत्यम् । सैनापत्यम् । अधिपतित्वम् , अधिपतिता ।
राज'अन्तेभ्यः-आधिराज्यम् । यौवराज्यम् । अधिराजत्वम् , अधिराजता ।
गुणः अङ्गं निमित्तं येषां प्रवृत्तेः ते गुणाङ्गाः-गुणद्वारेग गुणिनि वर्तमानाः-मौढयम् , मूढत्वम्, मूढता।
'राज'आदिभ्यः-राज्यम् , राजत्वम् , राजता । काव्यम्, कविता, कवित्वम् । ब्राह्मण्यम् , ब्राह्मणत्वम् , ब्राह्मणता ॥ २६ ॥
सहायात् वा । २७। 'सहाय'शब्दात् तस्य भावे कृत्ये च ट्यण् वा भवति । सहायस्य भावः कृत्यं वा साहाय्यम् , साहायकम् , सहायत्वम् , सहायता ॥२७॥
वयः-प्राणिजातेः अन् । २८ । 'वयः'वचनात् प्राणिजातिवचनात् च तस्य भावे कर्मगि च वाच्ये अञ् प्रत्ययो भवति ।
कौमारम् , कुमारत्वम् , कुमारता । आश्वम् , अश्वत्वम् , अश्वता । जातिग्रहणं किम् ? चैत्रत्वम् , चैत्रता ॥ २८ ॥
'युव'आदि-'हायन'अन्तात् अण् । २९ । 'युव'आदेः 'हायन'अन्तात् च तस्य भावे कर्मणि च वाच्ये अण् प्रत्ययो भवति ।
यौवनम् , युवत्वम् , युवता । युवन् स्थविर इत्यादि । द्वैहायनम् , द्विहायनत्वम् , द्विहायनता ।। २९ ॥
'लघु'आदेः इकः । ३० । 'लघु'पूर्वः यः इक् तदन्तात् तस्य भावे कर्मणि च अर्थ अण् प्रत्ययो भवति ।
शौचम् , शुचित्वम्, शुचिता । 'तैतवम्' इत्यत्र यद्यपि 'तितउ' इति अव्यवहित'लघु'आदि 'इ'अन्तं भवति तथापि नैकम् उदाहरणं लक्षणारम्भं प्रयोजयति इति 'शुचि' आदिभ्यः अपि भवति । 'लघु'आदेः इति किम् ? पाण्डुत्वम् । इकः इति किम् ? घटत्वम् ॥ ३० ॥
हृदय-पुरुषात् असमासे । ३१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org