________________
तद्धिते द्वितीयः पादः
[ ३३३
प्राक् 'वे' प्रत्ययात् नञ्तत्पुरुषात् 'अबुध' आद्यन्तीत् त्व-तलौं एव भवतः इति अधिकृतं वेदितव्यम् ।
अशुक्लत्वम्, अशुक्लता । ‘अशौक्ल्यम्' 'अकार्ण्यम्' इति ‘ट्यण्’अन्तेन समासः । अपतित्वम्, अपतिता । 'अनाधिपत्यम् ' ' अगाणपत्यम्' इति 'ट्यण' अन्तेन समासः । अस्थविरत्वम्, अस्थविरता । 'अस्थाविरम्' इति 'अ'अन्तेन समासः । अहायनत्वम्, अहायनता । ‘अद्वैहायनम्' इति 'अण्' अन्तेन समासः । अरमणीयत्वम्, अरमणीयता । 'अरामणीयकम्' इति 'वुञ्' अन्तेन समासः । अन्यथा सर्वत्र नञः वृद्धिः स्यात् । अबुधादेः इति किम् ? आबुध्यम् । आचतुर्यम् | बुध चतुर इत्यादि ॥ २३ ॥
'पृथु' आदेः वा इमन् । २४ ।
'पृथु' आदिभ्यः भावे वाच्ये इमन् प्रत्ययो भवति वा । 'प्राकृत्वात्' इति वचनात् त्व-तलौ, 'वा' वचनात् तु अन्योऽपि प्राप्तः ।
प्रथमा, पृथुत्वम्, पृथुता, पार्थवम् । पृथु मृदु इत्यादि ॥ २४ ॥
वर्ण-'दृढ' आदिभ्यः ट्यण् च । २५ ।
वर्ण[विशेषवाचिभ्यः 'दृढ' आदिभ्यश्च तस्य भावे इमन् ट्यण् च वा भवतः ।
शुक्लस्य भावः शुक्तिमा, शौक्लयम्, शुक्लत्वम्, शुक्लता । कृष्णिमा, कार्यम्, कृष्णत्वम्, कृष्णता । कद्रिमा, काद्रव्यम्, कद्भुत्वम्, कद्रुता । शितिमा, शैत्यम्, शितित्वम्, शितिता, शैतम् । 'वा' वचनात् 'इक्' अन्तस्य पाञ्चरूप्यम् । 'दृढ' आदिभ्यःद्रढिमा, दार्क्ष्यम्, दृढत्वम्, दृढता । परित्रढिमा, पारिवृढ्यम्, परिवृढत्वम्, परिवृढता । सम्मतिमा साम्मत्यम्, सम्मतित्वम्, सम्मतिता, साम्मतम् । टकारः 'ङी' अर्थः । आर्हन्ती । औचिती । सामग्री । शैली ] ॥ २५ ॥
['पति' - 'राज' अन्त-गुणाङ्ग - 'राज' आदिभ्यः कृत्ये च । २६ ।
'पति' अन्त - 'राज' अन्त-गुणाङ्ग - 'राज' आदिभ्यः 'तस्य' इति षष्ठ्यन्तेभ्यः कृत्ये कर्तव्ये, कर्मणि-क्रियायाम् भावे च ट्यण् भवति ।
१. अत्र “प्राक् प्रत्ययात्' इति कुतः अनुवर्तनीयम् ? अस्मात् सूत्रात् पूर्वम् स्वात् अगडुलादेः” इति शाकटायनीयम् सूत्रं वर्तते - ३|३|६| शा० अ० हैमेsपि एवमेब ७|१|७७ | अतः अत्र इदं सूत्रं खण्डितं ज्ञेयम् । अत्र अस्यैव पादस्य ३९ - एकोनचत्वारिंशत्तमं सूत्रं समनुसंधेयम् । २. 'बुध' आदि अन्तवर्जितात् अर्थात् 'बुध' आदयः शब्दा न तत्पुरुषे अन्ते न स्युः इति भावः ।
Jain Education International
For Private & Personal Use Only
प्राक्
-
www.jainelibrary.org