________________
३३२ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । अश्वकः । अश्वकं रूपम् । संज्ञा-प्रतिकृत्योः इति किम् ? गोः तुल्यः गवयः ॥ १८ ॥
न नृ-पूजार्थ-ध्वज-चित्रे । १९ । नरि पूजार्थे ध्वजे चित्रे कर्मणि च वाच्ये 'क' प्रत्ययो न भवति ।
चञ्चातुल्यः चच्चा ना । पूजार्थ-अर्हन् । शिवः । स्कन्दः । पूजनार्थाः प्रतिकृतयः । सिंहो ध्वजः । चित्रकर्मणि-दुर्योधनः ॥ १९ ॥
अपण्ये जीवने । २० । जीव्यते येन तस्मिन् अपण्ये 'क' प्रत्ययो न भवति ।
वासुदेवतुल्यः वासुदेवः । शिवः । स्कन्दः । जीविकार्था एताः प्रतिकृतयः । अपण्ये इति किम् ? हस्तिकान् विक्रीणीते ॥ २० ॥
'देवपथ'आदिभ्यः । २१ । एभ्यः तुल्ये अर्थे संज्ञा-प्रतिकृत्योः कः न भवति । देवपथतुल्यः देवपथः । वारिपथः इत्यादि ॥ २१ ॥
भावे त्व-तलौ । २२। 'तस्य' इति षष्ठ्यन्तात् भावे वाच्ये 'त्व'-'तल्' प्र ययौ भवतः । भवतः अस्मात् अभिधान-प्रत्ययौ इति भावः-शब्दप्रवृत्तिनिमित्तम् ।
गोता, गोत्वम् अत्र सामान्यम् । शुक्लत्वम् शुक्लता पटस्य, अत्र गुणः । शुक्लत्वम् शुक्लता रूपस्य, अत्र गुणसामान्यम् । राजपुरुषत्वम् राजपुरुषता, कारकत्वम् कारकता, औपगवत्वम् औपगवता-अत्र संबन्धः । समास-कृत्-तद्धितेषु अपि रूढिशब्देषु जात्यभिधानमेव-कृष्णसर्पत्वम् कृष्णसर्पता । कुम्भकारत्वम् कुम्भकारता । हस्तित्वम् हस्तिता । धवखदिरत्वम् इति संघातः । यदृच्छाशब्देषु अपि शब्दस्वरूपं संज्ञा-संज्ञिसंबन्धः बालकिशोराद्यवस्थानुगतं वा वस्तुरूपम्-डित्थत्वम् डित्थता । चैत्रत्वम् , चैत्रता । भवनम् भूतिः भावः इति प्रकृत्यर्थौ अभिन्नौ वा सत्ता प्रत्ययार्थः । पृथक्त्वम् पृथक्ता । नानात्वम् नानाता ।वृत्तौ 'पृथग्' आदिशब्दाः 'पृथग्भूत' आदिअर्थे वर्तन्ते इति प्रत्ययः । विग्रहस्तु "पृथग्भूतस्य भावः' इत्यादि ॥ २२ ॥
नञ्तत्पुरुषात् अबुधादेः । २३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org