________________
तद्धिते द्वितीयः पादः भङ्गा-उमा- तिलात् । १३ ।
एभ्यः षष्ठ्यन्तेभ्यः क्षेत्रे वाच्ये वा 'य' प्रत्ययो भवति ।
भङ्गयम्, भाङ्गीनम् | उम्यम्, औमीनम् । तिल्यम्, तैलीनम् ॥ १३ ॥ अलाब्वाश्च रजसि कटः । १४ ।
[ ३३१
'अलाबू' शब्दात् भङ्गा - उमा तिलेभ्यश्च रजसि वाच्ये 'कट' प्रत्ययो भवति । अलाबूनां रजः अलाबूकटम् । भङ्गाकटम् । उमाकटम् | तिलकटम् ॥ १४ ॥ पिलु' आदेः कुणः पाके । १५ ।
"
'पीलु' आदेः 'तस्य' इति षष्ठ्यन्तात् पाके अर्थे 'कु' प्रत्ययो भवति । पीलूनां पाकः पीलुकुणः । कर्कन्धुकुणः । पीलु कर्कन्धु इत्यादि ॥ १५ ॥ 'कर्ण' आदि पक्षात् जाह-ति मूले । १६ ।
'कर्ण' आदेः 'पक्ष' शब्दात् च षष्ठ्यन्तात् मूले अर्थे यथासंख्यं 'जाह'-'ति' प्रत्ययौ भवतः ।
कर्णस्य मूलम् कर्णजाहम् । अक्षिजाहम् । कर्ण अक्षि इत्यादि । पक्षस्य मूलम् पक्षतिः ॥ १६ ॥
[ द्रोः भ ] व्ये' । १७ ।
'दु' शब्दात् तुल्ये भव्ये अर्थे 'ये' प्रत्ययो भवति । विशिष्टेष्टपरिणामेन भवति इति भव्यम् ।
Jain Education International
तुल्यं द्रव्यम् - कार्षापणम् । यथा-दु अग्रन्थि अजिह्मम् दारु उपकल्प्यमानविशिष्टेष्टरूपं भवति तथा इदं कार्षापणं विनियुज्यमानं विशिष्टेष्टमालादिउपभोगफलम् । भव्ये इति किम् ? द्वैणः तुल्यः ॥ १७ ॥
संज्ञा - प्रतिकृत्योः कः । १८ ।
'तस्य' इति षष्ठ्यन्तात् तुल्ये अर्थे संज्ञायाम् प्रतिकृतौ च विषये 'क' प्रत्ययो भवति । प्रतिकृतिः काष्ठादिमयं प्रतिबिम्बम् ।
१. षोडशतमे सूत्रे 'जाह - ति' इत्येवं द्वौ प्रत्ययौ विहितौ तथासति सप्तदशतमे सूत्रे 'य' प्रत्ययस्य 'तुल्य' अर्थस्य च अनुवर्तनं कस्मात् ? अतः 'तुल्य' इति पदस्य तथा 'य' प्रत्ययस्य च अनुवर्तनादेव कल्पयितुं शक्यम् यत् अनयोः सूत्रयोर्मध्ये खण्डितं वर्तते । २. 'द्रु' शब्दस्य षष्ठ्यन्तम् ।
For Private & Personal Use Only
www.jainelibrary.org