________________
३३०] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् ।
इन्द्रियम् । ६। 'इन्द्र'शब्दाद् ‘इय'प्रत्ययो निपात्यते, निपातनं रूढयर्थम् ।
इन्द्रः आत्मा तस्य लिङ्गम् इदम् आवरणक्षय-उपशमजम् , तेन जुष्टम् दत्तं वा इन्द्रियम् ॥ ६ ॥
पूर्वम् अनेन सादेश्च इन् । ७। 'पूर्वम्'इति क्रियाविशेषणात् 'पूर्व'शब्दात् केवलात् सादेश्च 'अनेन'इति तृतीयार्थे कर्तरि 'इन्'प्रत्ययो भवति ।
____ पूर्वम् अनेन पूर्वी कटम् । 'अनेन'इति कर्ता क्रियामन्तरेण न इति 'कृतम्' इत्यादिका काचित् क्रिया अपेक्ष्यते, विशेषाधिगमस्तु अर्थ-प्रकरणादिना । सादेः-[कृतं पूर्वम् अनेन कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । पीतपूर्वी सुराम् ॥ ७ ॥ .
[शाकद-शाकिनौं क्षेत्रे।८। 'तस्य' इति वर्तते । धान्यादीनाम् उत्पत्त्याधारभूः क्षेत्रम् । 'तस्य' इति षष्ठयन्तात् क्षेत्रे अर्थे शाकट-शाकिनौ प्रत्ययो भवतः । इथूणां क्षेत्रम् इक्षु]शाकटम् । इक्षुशाकिनम् ॥ ८ ॥
धान्येभ्यः ईनञ् ।९।। 'धान्य' अर्थेभ्यः षष्ठ्यन्तेभ्यः क्षेत्रे अर्थे ईनञ् प्रत्ययो भवति । मौद्गीनम् । कौद्रवीगम् ॥ ९ ॥
व्रीहि-शालिभ्याम् एय ।१०। आभ्यां क्षेत्रे वाच्ये एयञ् प्रत्ययो भवति । त्रैहेयम् । शालेयम् ॥ १०॥
_यव-यवक-पष्टिकेभ्यः यः । ११ । एभ्यः क्षेत्रे वाच्ये 'य' प्रत्ययो भवति । यव्यम् । यवक्यम् । षैष्टिक्यम् ॥ ११ ॥
वा अणु-माषाभ्याम् । १२। आभ्यां षष्ठयन्ताभ्यां क्षेत्रेवाच्ये वा 'य' प्रत्ययो भवति । अणव्यम् , आणवीनम् । माष्यम् , माषीणम् ॥ १२ ॥
१. 'पीतपूर्वी पयः" इति हैमम्-७।१।१६७। २ "षष्टिरात्रेण पच्यमाना व्रीहयः षष्टिकाः" ३१३।२७। शा० अ० । ७।१।७८। हैमम् । भाषायाम्-साठी चोखा । ३. "व्रीहिमेदः अणुः-" ( अमर० द्वितीयकाण्डे वैश्यव० श्लो. २०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org